Enter your Email Address to subscribe to our newsletters

- समाधान योजनायाः द्वितीये चरणे सम्मेलितुं 5 दिनानि अवशिष्टानि
भोपालम्, 23 फरवरीमासः (हि.स.)।मध्यप्रदेशस्य ऊर्जामन्त्री प्रद्युम्नसिंहतोंमर उक्तवान् यत् अधुना पर्यन्तं विंशतिलक्ष षड्विंशतिसहस्राधिकाः विद्युतोपभोक्तारः सरचार्जराशेः मूल्यशैथिल्यलाभं प्राप्तवन्तः।
सोमवासरे स सूचितवान् यत् मध्यप्रदेशसर्वकारस्य समाधानयोजना 2025-26 इत्यस्य द्वितीयः अन्तिमश्च चरणः अष्टाविंशतितमे फेब्रुवरीदिने यावत् प्रवर्तते। योजनायाः लाभं प्राप्तुं केवलं पञ्चदिनानि अवशिष्टानि सन्ति। अस्मिन् काले त्रिमासाधिकबकायादारोपभोक्तृभ्यः एकमुश्तराशेः भुगतानं कृत्वा नवतिप्रतिशतपर्यन्तं सरचार्ज इत्यत्र शैथिल्यं दीयते। गतवर्षस्य तृतीयनवम्बरदिनात् आरब्धायां समाधानयोजनायां अधुना पर्यन्तं विंशतिलक्ष षड्विंशतिसहस्र बकायादारोपभोक्तारः लाभं प्राप्तवन्तः इति स अवदत्।
ऊर्जामन्त्री तोमर उपभोक्तॄन् प्रति आवाहनं कृतवान् यत् ये त्रिमासाधिकबकायादाराः प्रथमचरणे न सम्मिलिताः ते अधुना द्वितीयचरणे सम्मिल्य स्वबकायाबिलं एकमुश्तं समर्प्य नवतिप्रतिशतपर्यन्तं सरचार्जमाफी लाभं प्राप्नुयुः।
समाधानयोजना 2025-26 अन्तर्गतं अधुना पर्यन्तं मध्यक्षेत्रविद्युत्वितरणकम्पन्याः पञ्चलक्ष अष्टनवतिसहस्र उपभोक्तारः पंजीकरणं कृत्वा लाभं प्राप्तवन्तः। अस्याः कम्पन्याः खाते पञ्चशत अष्टसप्ततिः कोटि सप्तनवतिलक्षाधिकमूलराशिः जमा कृता अस्ति तथा द्विशत द्विसप्ततिः कोटि षट्सप्ततिलक्षरूप्यकाणि सरचार्जरूपेण माफीकृतानि। पूर्वक्षेत्रविद्युत्वितरणकम्पन्याः सप्तलक्ष चतुश्चत्वारिंशत्सहस्र उपभोक्तारः लाभं प्राप्तवन्तः। तस्याः खाते द्विशत पञ्चकोटि विंशतिलक्षरूप्यकाणि जमा कृता तथा अष्टषष्टि कोटि षटलक्षरूप्यकाणि सरचार्जमाफीकृतानि। पश्चिमक्षेत्रविद्युत्वितरणकम्पन्याः षटलक्ष चतुरशीतिसहस्र उपभोक्तारः लाभं प्राप्तवन्तः। तस्याः खाते शत अष्टाशीतिकोटि त्र्यशीतिलक्षरूप्यकाणि जमा कृता तथा अष्टाविंशतिः कोटि षोडशलक्षरूप्यकाणि सरचार्जमाफीकृतानि।
समाधानयोजनायाः प्रवर्तनात् उपभोक्तारः बकायाराशेः एकमुश्तभुगतानं कृत्वा अधिकतमछूटलाभं प्राप्नुवन्ति। एषा योजना तेषां बकायादारोपभोक्तॄणां कृते वरदानरूपा जाता ये सरचार्जभारात् मूलधनराशिं दातुं न शक्नुवन्ति स्म। अधुना द्वितीयचरणे पञ्चाशत्प्रतिशतात् नवतिप्रतिशतपर्यन्तं सरचार्जछूटेन सह एकमुश्तं वा किस्तिरूपेण वा भुगतानस्य विकल्पः उपलब्धः।
समाधानयोजना 2025-26 इत्यस्य उद्देश्यः त्रिमासाधिकबकायादारोपभोक्तॄणां विलम्बितभुगतानसरचार्जे छूटप्रदानम् अस्ति। एषा योजना शीघ्रमागच्छन्तु एकमुश्तभुगतानं कृत्वा अधिकलाभं प्राप्नुत इति सिद्धान्ते आधारिताऽस्ति। द्वितीयः अन्तिमश्च चरणः प्रथमफेब्रुवरीदिनात् आरब्धः अष्टाविंशतितमे फेब्रुवरी 2026 पर्यन्तं चलिष्यति। अस्मिन् चरणे एकमुश्तभुगतानस्य स्थितौ सप्ततिप्रतिशतात् नवतिप्रतिशतपर्यन्तं तथा किस्तिभुगतानस्य स्थितौ पञ्चाशत्प्रतिशतात् षष्टिप्रतिशतपर्यन्तं सरचार्जमाफी दीयते।
योजनालाभार्थं उपभोक्तृभिः कम्पन्याः पोर्टले पंजीकरणं कर्तव्यम्। पंजीकरणकाले विभिन्नोपभोक्तृवर्गानुसारं पंजीकरणराशिः निर्धारिताऽस्ति। घरेलू कृषि उपभोक्तारः समग्रबकायाराशेः दशप्रतिशतं तथा अघरेलू औद्योगिकोपभोक्तारः पञ्चविंशतिप्रतिशतं दत्त्वा पंजीकरणं कृत्वा योजनायां सम्मिल्य लाभं प्राप्नुयुः। विस्तृतविवरणं त्रयाणां कम्पन्याः जालपुटेषु अपि द्रष्टुं शक्यते। विद्युत्वितरणकेन्द्रेषु उपस्थित्य अपि योजनाविषये सूचना प्राप्तुं शक्यते।
हिन्दुस्थान समाचार