Enter your Email Address to subscribe to our newsletters



कानपुरनगरम्, २३ फरवरीमासः (हि.स.)। “छत्रपतिशिवाजीमहाराज: केवलं वीर–योद्धा एव नासीत्; अपि तु स्वस्य साहसेन, रण–नीत्या, सुशासनेन च देशस्य राजनीतिं नूतनां दिशां प्रदत्तवान्,” इति सोमवासरे आयोजिते ‘छत्रपति–महोत्सवः २०२६ सामाजिक–समरसता–सम्मेलनम्’ इति कार्यक्रमे मुख्यातिथिरूपेण उपस्थितः आशीषपटेल:, उत्तरप्रदेश–राज्य–सर्वकारस्य कैबिनेट–मन्त्री, अवदत्।
कार्यक्रमस्य आयोजकः आशीषसचान: अवदत् यत् अस्य सम्मेलनस्य उद्देश्यं समाजे समरसतायाः, एकतायाः च संवर्धनं तथा महापुरुषाणां आदर्शान् जनं जनं प्रति प्रेषयितुम् अस्ति। समित्या उक्तं यत् एतेन प्रकारेण आयोजनेन यूनां राष्ट्रभक्ति–भावना दृढीभवति तथा समाजः नूतनां दिशां प्राप्नोति।
हिन्दवी–स्वराजस्य संस्थापकस्य छत्रपति-शिवाजी–महाराजस्य जयन्त्यवसरे आयोजितः ‘छत्रपति–महोत्सवः २०२६ सामाजिक–समरसता–सम्मेलनम्’ ऐतिहासिकः अभवत्। मोतीझील-लाजपत-भवन–स्थले आयोजिते अस्मिन् भव्ये समारोहे सामाजिक–एकता, सांस्कृतिक–गौरवः, शौर्यं च— एषा त्रिवेणी स्पष्टतया दृष्टिगोचरा अभवत्। कार्यक्रमस्य आरम्भः मोतीझील–मेट्रो–स्थानकस्य समीपे स्थितायां शिवाजी–महाराजस्य प्रतिमायां माल्यार्पणेन कृतः।
तदनन्तरं आशीष–सचान: अधिवक्ता, राजेन्द्र–प्रसादः तथा अरविन्द–सचानः—एतेषां कुशल–निर्देशनेन भव्य–शोभायात्रा निर्गता। रथे आरूढा शिवाजी–महाराजस्य सजीवा प्रदर्शिनी, तदनुगामिनः अश्वारूढाः सैनिकाश्च सर्वेषां आकर्षण–केन्द्रं अभवन्। ‘जय भवानी–जय शिवाजी’ इति घोषनिनादैः सह कुर्मी–परिवारस्य सदस्याः नृत्य–गीतैः कार्यक्रम–स्थलं प्राप्तवन्तः, यत्र पुष्पवृष्ट्या तेषां स्वागतं कृतम्।
लाजपत–भवने कार्यक्रमस्य आरम्भः सामूहिक–राष्ट्रगीत–गायनेन तथा माता–जीजाऊ–वन्दनया कृतः। मञ्चे शिवाजी–महाराजस्य जीवनाधारितं भावपूर्णं नाट्य–अभिनयम् प्रदर्शितं, येन दर्शकाः भाव–विभोराः अभवन्। कृषक–सेवा–संघस्य राष्ट्रीय–अध्यक्षः अविनाश: काकडे अवदत् यत् ‘छत्रपति:’ इति व्यक्तित्वं माता–जीजाऊ-इत्यनया संस्कारैः निर्मितम्। यदि समाजे जीजाऊ–सदृशाः संस्काराः विकसिताः भविष्यन्ति, तर्हि प्रत्येकस्मात् गृहे शिवाजी–सदृशं नेतृत्वं उद्भविष्यति।
मुख्यातिथिः मन्त्री आशीषपटेल: अवदत् यत् शिवाजी–महाराजः केवलं युद्धकौशलं न, अपि तु प्रशासनं सुशासनं च अद्वितीयतया अवगच्छन् आसीत्। तेन समाजं संगठ्य नूतनां राजनीतिक–दिशां निर्मिता। ‘द मिशन सरदार’–संस्थायाः अध्यक्षः चिरागपटेल: समता–सामाजिक–एकतयोः महत्त्वं प्रतिपादयन् अवदत् यत् स्कन्धेन स्कन्धं संयोज्य गमनमेव सत्या एकता अस्ति। मराठा–समन्वय–परिषदः प्रतिनिधिः कमलेशपाटिल: कुर्मी–समाजस्य योगदानं प्रशंसन् अवदत् यत् देशस्य पोषणे निर्माणे च अस्य समाजस्य महती भूमिका अस्ति।
कार्यक्रमस्य उपसंहारे आयोजन–समित्या समाजस्य अमर–नायकानां स्वतन्त्रता–सेनानां च परिजनाः सम्मानिताः, तेषां योगदानाय नमनं कृतम्। सम्पूर्णे समारोहे राष्ट्रभक्ति:, परम्परा तथा सामाजिक–समरसतायाः भावना सर्वत्र स्पष्टतया परिलक्षिताऽभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता