Enter your Email Address to subscribe to our newsletters

वाराणसी, 23 फरवरीमासः(हि.स.)।
उत्तरप्रदेशराजकीयउद्यानखाद्यप्रसंस्करणविभागस्य वाराणस्यां कचहरीस्थिते कम्पनीगार्डन इत्यत्र आयोजिताया द्विदिवसीया शाकभाजीफलपुष्पप्रदर्शन्याः समापनम् सोमवासरे अभवत्। अस्यां प्रदर्शन्यां पूर्वोत्तररेलवे वाराणसीमण्डलस्य उद्यानएककेन उत्कृष्टप्रदर्शनं कृत्वा गतवर्षस्य एकाशीतिः पुरस्काराणां अभिलेखं भित्त्वा कुलं चतुरधिकशतं अर्थात् 104 पुरस्काराः प्राप्ताः। तेषु अष्टत्रिंशत् प्रथमपुरस्काराः चतुस्त्रिंशत् द्वितीयपुरस्काराः द्वात्रिंशत् तृतीयपुरस्काराः च सन्ति। अपि च गमले स्थापितसदाबहारपादपश्रेण्यां तथा गमले स्थापितमौसमीपुष्पश्रेण्यां द्वे रनिंगशील्डे अपि प्राप्ते।
प्रदर्शन्यां वाराणसीरेलवेमंडले मण्डलरेलप्रबन्धकस्य आशीषजैनस्य निर्देशनस्य वरिष्ठमण्डलअभियन्तुः समन्वय विकासकुमारसिंहस्य नेतृत्वस्य च अन्तर्गतं उद्यानदलस्य उत्साहपूर्णं सहभागित्वम् आसीत्।
समापनपुरस्कारवितरणसमारोहे मुख्यातिथिना मण्डलायुक्तेन एस राजलिंगम् इत्यनेन स्वकरकमलाभ्यां पूर्वोत्तररेलवेपक्षे द्वे रनिंगशील्डे सहितं 104 पुरस्काराः मुख्यउद्याननिरीक्षकाय मुकेशकुमाराय प्रदत्ताः। प्रदर्शन्यां कुलं एकोनषष्ट्यधिकशतं अर्थात् 159 श्रेण्यः आसन् यासु त्रयोविंशत्यधिकशतं अर्थात् 123 श्रेण्यासु पूर्वोत्तररेलवे द्वारा वनस्पतिप्रारूपाः प्रदर्शिताः।
---------------
हिन्दुस्थान समाचार