Enter your Email Address to subscribe to our newsletters



गोधन समागम-2026 कार्यक्रमे उत्तरप्रदेशस्य सर्वाधिकं दुग्ध उत्पादकेषु 112 दुग्धोत्पादकाः पुरस्कृताः
लखनऊ, 23 फरवरीमासः (हि.स.)।उत्तरप्रदेशस्य पशुधनदुग्धविकासराजनैतिकपेंशनविभागस्य मन्त्रिपरिषदः सदस्येन धर्मपालसिंहेन सोमवासरे इन्दिरागान्धीप्रतिष्ठाने आयोजिते भव्ये गोधनसमागम 2026 कार्यक्रमे वर्षस्य 2024-25 सर्वाधिकदुग्धापूर्तिकर्तारः त्रिषष्टि दुग्धउत्पादकान् गोकुलपुरस्कारैः तथा गव्यां सर्वाधिकदुग्धोत्पादनकर्तारः एकोनपञ्चाशत् दुग्धउत्पादकाः नन्दबाबापुरस्कारैः सम्मानिताः
अस्मिन् अवसरॆ मन्त्रिणा सर्वे 112 पुरस्कृतदुग्धउत्पादकाः प्रतीकचिह्नैः धनराशिभिः प्रमाणपत्रैः च सम्मानिताः। निराश्रितगोवंशसंरक्षणक्षेत्रे उत्कृष्टकार्यं कृतवन्तः पञ्चजनपदान् हरदोई अलीगढ अमरोहा जालौन रायबरेली इत्येषां जिलाधिकारीणः सीडीओ सीवीओ च प्रशस्तिपत्रैः स्मृतिचिह्नैः च सम्मानिताः।
मन्त्री धर्मपालसिंह उक्तवान् यत् गोधनसमागमः अस्माकं गव्यपरम्परासंस्कृतेः अद्भुतः संगमः अस्ति। एषः समागमः प्रदेशे दुग्धोत्पादनवृद्ध्यर्थं गौजन्यपदार्थानां प्रयोगाय च जनमानसं जागरूकं करिष्यति। दुग्धोत्पादनप्रोत्साहनाय स्वरोजगारवृद्धये दुधारुपशुपालनाय गुणवत्तायुक्तदुग्धपदार्थप्रदाय च दुग्धविकासविभागः प्रतिबद्धः अस्ति। मुख्यमन्त्रिणः योगीआदित्यनाथस्य प्रेरणया स्वदेशीगोवंशीयदेशीगवां दुग्धोत्पादनं वर्ध्यते गोवंशसंरक्षणसंवर्धनं च राज्यसरकारस्य प्राथमिकता अस्ति।
गोकुलपुरस्कारस्य अन्तर्गतं लखनऊदुग्धसंघस्य लखीमपुरखीरीजिलानिवासी वरुणसिंह 1,81,272 लीटर दुग्धापूर्तये राज्यस्तरीयप्रथमपुरस्कारं तथा फिरोजाबाददुग्धसंघस्य आग्राजिलास्थितठेरईसमितेः वीरेन्द्रसिंह 1,10,693.50 लीटर दुग्धापूर्तये द्वितीयपुरस्कारं प्राप्तवन्तौ। तयोः क्रमशः द्विलक्षरूप्यकाणि तथा लक्षार्धरूप्यकाणि दत्तानि अन्येभ्यः जनपदस्तरीयविजेतृभ्यः एकपञ्चाशत्सहस्ररूप्यकाणि प्रदत्तानि।
नन्दबाबापुरस्कारस्य अन्तर्गतं मुरादाबाददुग्धसंघस्य रामपुरजिलास्थितहमीरपुरसमितेः अरुणकुमार 19,066 लीटर दुग्धापूर्तये राज्यस्तरीयपुरस्कारं प्राप्य एकपञ्चाशत्सहस्ररूप्यकाणि प्राप्तवान्। अन्येभ्यः जनपदस्तरीयलाभार्थिभ्यः एकविंशतिसहस्ररूप्यकाणि दत्तानि। 112 विजेतृषु पञ्चविंशतिः महिलालाभार्थिन्यः सन्ति इति स विशेषतः उल्लिखितवान्।
उप्रदुग्धशालाविकासदुग्धउत्पादप्रोत्साहननीति 2022 अन्तर्गतं 550 कोटिरूप्यकाणां निवेशः कृतः यस्मात् प्रतिदिनं 39 लक्षलीटरदुग्धप्रसंस्करणक्षमता वर्धिता 1500 रोजगाराः च सृजिताः। नीति अनुसारं 35 प्रतिशतपर्यन्तं अधिकतमं पञ्चकोटिरूप्यकाणि पूंजीगतअनुदानं दीयते। आगामिवित्तीयवर्षे 2026-27 पञ्चविंशतिकोटिरूप्यकाणां प्राविधानं कृतम्।
नन्दबाबादुग्धमिशनस्य अन्तर्गतं नन्दिनीकृषकसमृद्धियोजना मिनीनन्दिनीकृषकसमृद्धियोजना मुख्यमन्त्रीस्वदेशीगौसंवर्धनयोजना मुख्यमन्त्रीप्रगतिशीलपशुपालकप्रोत्साहनयोजना इत्यादिभिः दशसहस्रपशुपालकाः लाभान्विताः। 6,121 राजस्वग्रामेषु प्रारम्भिकदुग्धसहकारीसमितयः स्थापिताः येन 2,44,840 दुग्धउत्पादकाः लाभं प्राप्नुवन्ति। आगामिवर्षे 8,000 पशुपालकाः 1,750 ग्रामेषु नूतनसमितीनां स्थापनेन लाभान्विताः भविष्यन्ति।
कार्यक्रमे अपरमुख्यसचिवः मुकेशकुमारमेश्राम दुग्धआयुक्ता धनलक्ष्मीके इत्यादयः अधिकारीणः उपस्थिताः। एनडीडीबी एनबीएजीआर संस्थानप्रतिनिधिभिः प्रस्तुतीकरणं कृतम्। अन्ये अपि विशेषज्ञाः गौआधारितअर्थव्यवस्था पशुआहार हरितचारा पशुपोषण नस्लसुधार पशुस्वास्थ्य इत्यादिषु विषयेषु विचारान् व्यक्तवन्तः।
कार्यक्रमे वैभवश्रीवास्तव रामसहाययादव डॉ मेमपालसिंह डॉ रामसागर एपीसिंह इत्यादयः अपि स्वविचारान् अवदन्। गोधनसमागमे प्रायः सहस्रकृषकाः प्रत्यक्षतः अन्ये लक्षाधिकाः जनाः जालप्रसारणमाध्यमेन सहभागिनः अभवन्। आयोजनस्य सफलतायां इन्द्रभूषणसिंह आशीषकुमारश्रीवास्तव शैलेन्द्रकुमारवर्मा अरविन्दकुमारयादव विवेककुमारकुशवाहा रूपेशमिश्र इत्येषां विशेषयोगदानम् आसीत्।
---------------
हिन्दुस्थान समाचार