Enter your Email Address to subscribe to our newsletters

वाराणसी, 23 फरवरीमासः(हि.स.)।
वाराणस्याः जनपदे दक्षिणीविधानसभाक्षेत्रे मैदागिनस्थिते गोलघरमार्केटनाम्नि चायविपण्यां सोमवासरे विधायकः डॉ नीलकंठ तिवारी उपस्थितः आसीत्। तेन अत्र नवमतदातृअभियानस्य जनसमस्यानां च विषयेषु जनैः सह चर्चा कृता।
चर्चाकाले विधायकेन आह्वानंकृतं यत् ये नवयुवानाः अष्टादशवर्षीयां आयुं पूर्णवन्तः सन्ति ते मतदाता प्रपत्रं पूरयित्वा शीघ्रं समर्पयन्तु। अधिकाधिकसंख्यया नवमतदातॄणां निर्माणकार्यं पक्षकार्यकर्तृभिः क्रियताम्। तथा च प्रयत्नः क्रियतां यत् कश्चिदपि नवमतदाता भवितुं न वञ्चितः स्यात्।
अस्मिन् अवसरे विधायकेन क्षेत्रनिवासिनां जनसमस्याः अपि श्रुताः। अपि च विधानसभाक्षेत्रस्य विविधक्रियाकलापानां विषये चर्चा कृता, स्वस्तरेण समाधानं कर्तुं आश्वासनं दत्तम्। अन्ते सः चायपेयं पिबन् अस्य प्रशंसां अपि अकरोत्।
---------------
हिन्दुस्थान समाचार