Enter your Email Address to subscribe to our newsletters


गुवाहाटीनगरम्, २३ फरवरीमासः (हि.स.)। गौहाटीविश्वविद्यालये राष्ट्रीयमूल्यांकन-प्रत्यायन-परिषदा ए+ मान्यतां प्राप्ते, सोमवासरात् युवशक्तेः उत्साहेन, सृजनशीलतायाः वर्णैः तथा क्रीडा–भावनायाः स्वरैः सह विश्वविद्यालय–सप्ताहस्य शुभारम्भः अभवत्। सृजनात्मकताया: क्रीडा–प्रतिभाया: तथा सांस्कृतिक–विविधतायाः रम्ये समन्वये अस्य आयोजनस्य आरम्भः कृतः।
उद्घाटन–समारोहे विश्वविद्यालय–ध्वजं आरोहयन् कुलसचिवः प्रो.उत्पल–शर्मा अवदत्—“विश्वविद्यालय–सप्ताहः केवलं उत्सवः न; अपि तु युवशक्तेः आत्मप्रकाशाय गौरवपूर्ण: मंच: वर्तते। अत्र सृजनशीलता, क्रीडा–भावना तथा सांस्कृतिक–एकतायाः समन्वयेन विद्यार्थिनां सुप्त–प्रतिभाः विकसितुं अवसरं लभन्ते। विश्वविद्यालय–सप्ताहः एकता–अनुशासन–परिश्रम–मूल्यानि जागरयन् भावी–वंशं उत्तरदायीं सृजनात्मकं नागरिकं च कर्तुं प्रेरयति।”
उल्लेखनीयम् यत् अष्ट–दिवसीये अस्मिन् मनोरञ्जके विश्वविद्यालय–सप्ताहे क्रीडा, साहित्य, संगीत, नृत्य, ललित–कला इत्यादिषु विभागेषु प्रश्नमंच:, वाद–विवादः, एकाङ्की–नाटकम्, कबड्डी, एकल–अभिनयः इत्यादिषु शताधिक–प्रतियोगितासु छात्राः छात्र्यश्च स्व–प्रतिभां प्रदर्शयिष्यन्ति।
कार्यक्रमे विश्वविद्यालयस्य विविध–संकायानां सचिवः डॉ.हेमन्त–कुमार–नाथः, सूचना–प्रौद्योगिकी–संकायाध्यक्ष: प्रो.शिखर–कुमार–शर्मा, छात्र–कल्याण–निदेशकः डॉ.रञ्जन–कुमार–काकती, प्रो.रातुल–महन्तः, कुलपतेः सचिवः एवं जनसम्पर्क–अधिकारी डॉ.मृणाल–ज्योति–डेका, अन्ये प्राध्यापकगणाः, स्नातकोत्तर–छात्र–संघस्य अध्यक्षः गुञ्जन–डेका, महासचिवः प्रबल–ज्योति–शर्मा तथा अनेके अधिकारिणः विद्यार्थिनश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता