Enter your Email Address to subscribe to our newsletters

हरिद्वारनगरम्, २३ फरवरीमासः (हि.स.)। जनपदाधिकारी मयूर–दीक्षितः सोमवासरे जिला योजना, राज्ययोजना तथा बीस–सूत्रीय-कार्यक्रमानुसारं वित्तीयवर्षं 2025-26 मध्ये विभिन्नजनकल्याणकारी-योजनायाः स्वीकृत–धनराशेः अवशिष्ट–धनराशेः च सम्बन्धे समीक्षा–सभां कृतवान्।
स: समस्त-अधिकारीभ्यः निर्देशितवान् यत् वित्तीय–वर्षस्य अन्ते, यदि कतिपयविभागानां जनपद–योजनाया: अन्तर्गतं स्वीकृत–धनराशे: पूर्णं (100%) व्यय: न अभवत्, तेषां विभागानां फरवरी–मासस्य अन्तपर्यन्तं शत–प्रतिशतं धनराशि-व्ययं सुनिश्चितं कर्तव्यम्। एषु कार्ये कस्यापि प्रकारस्य शिथिलता न स्यात्।
राज्य–सेक्टर-अन्तर्गतं कार्याणि अपि शीर्ष–प्राथमिकता–क्रमे सम्पन्नं कृत्वा स्वीकृत–धनराश्याः व्ययं सुनिश्चितं कर्तव्यम्।
जनपदाधिकारी अवदत् यत् घोषणाः यदि कतिपयविभागेषु कार्यवाही-हेतु लंबितास्ति, तदा संबंधिताधिकारी तत्परता–पूर्वकं तेषु कार्ये प्रवर्तन्ताम्, कस्यापि प्रकारस्य विलम्बः न स्यात्।
समीक्षायाः अवसरे प्रमुख–विकास–अधिकारी ललित–नारायण–मिश्रा, उप–जनपदाधिकारी दीपेन्द्र–सिंह–नेगी, जनपद–विकास–अधिकारी वेद–प्रकाश:, मुख्य–चिकित्साधिकारी आर–के–सिंह:, उप–जनपदाधिकारी जितेन्द्र–कुमार:, मुख्य–कोषाधिकारी अजय–कुमार:, जनपद–पंचायतराज–अधिकारी अतुल–प्रताप–सिंह:, अधिशासी–अभियंता लोनिवि–दीपक–कुमार:, जनपध–पर्यटन–अधिकारी सुशील–नौटियाल: च तथा अन्ये जनपद–स्तरीयाधिकारिण: कर्मचारिण: च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता