भागवत कथायाः श्रवण मात्रेण मानवस्य मुक्तिः - भानुदेवाचार्यः
धौलपुरम्, 23 फ़रवरीमासः (हि.स.)। नगरस्य भगवान् परशुराम सेवासदने प्रवर्तमाने श्रीमद्भागवत कथायाः आयोजने तृतीयदिने कथावक्ता स्वामी भानुदेवाचार्य श्रीधाम वृन्दावनवासी ध्रुवचरित्रस्य कथां श्रावितवान्। स्वामीजी उक्तवान् यत् मानवजीवने भागवतकथया भगवत्प्
भागवत कथा के श्रवण मात्र से मानव की मुक्ति : भानुदेवाचार्य


धौलपुरम्, 23 फ़रवरीमासः (हि.स.)।

नगरस्य भगवान् परशुराम सेवासदने प्रवर्तमाने श्रीमद्भागवत कथायाः आयोजने तृतीयदिने कथावक्ता स्वामी भानुदेवाचार्य श्रीधाम वृन्दावनवासी ध्रुवचरित्रस्य कथां श्रावितवान्। स्वामीजी उक्तवान् यत् मानवजीवने भागवतकथया भगवत्प्राप्तिः भवति तथा भागवतकथाश्रवणमात्रेण मनुष्यस्य मोक्षः सुलभः भवति।

भागवतमहात्म्यं निरूपयन् स उक्तवान् यत् भगवतः गुणश्रवणमेव मनःशुद्धेः उपायः अस्ति। प्राचीनभारतीयसंस्कृतेः मूल्यानि उल्लेख्य स अवदत् यत् माता पिता आचार्यः अतिथिः च देवतुल्याः मान्यन्ते। वयं समग्रं विश्वं पृथिवीं च स्वकुटुम्बरूपेण मन्यामहे। अतः भारतीयसंस्कृतौ वसुधैव कुटुम्बकम् इति मान्यता अस्ति।

भक्तध्रुवस्य कथां वर्णयन् स नाममहिमानं प्रतिपादितवान्। स्वामीजी उक्तवान् यत् समग्रे विश्वे ब्रजभूमिरेव दिव्यस्थलम् अस्ति। अत्र कृता प्रार्थना भगवता शीघ्रं श्रूयते। ब्रजभूमिः अद्वितीया अस्ति। भक्तभगवतोः मध्ये अटूटप्रेम विद्यमानम् अस्ति। विपत्तिं विधातुः विधानं प्रारब्धं च मन्यमानः धैर्येण भोक्तव्यम्।

स अपि उक्तवान् यत् मानवः स्वजीवनं भगवद्विधानसंबद्धं कृत्वा अशैथिल्यात् मुक्तः भवति तस्य जीवनं सफलं भवति। तस्य जीवने विषादः न भवति एषा एव शरणागतिः। ईश्वरस्य व्यापकतां वर्णयन् स अवदत् यत् भगवान् जडात् चेतनपर्यन्तं सर्वत्र व्याप्तः अस्ति। अस्माभिः ईश्वरस्य उपस्थितेः परिचयः कर्तव्यः।

भागवतकथायाः यजमानौ सतीशशर्मा कुसुमशर्मा च अवदताम् यत् श्रीमद्भागवतज्ञानयज्ञः एकविंशतितः सप्तविंशतितमफेब्रुवरीदिनपर्यन्तं नगरस्य मचकुण्डमार्गस्थिते भगवान् परशुराम सेवासदने आयोज्यते। कथावक्ता भानुदेवाचार्यः श्रीधाम वृन्दावनवासी प्रतिदिनं मध्याह्ने एकवादनात् सायंकालं पञ्चवादनपर्यन्तं भागवतकथावाचनं कुर्वन्ति। भागवतकथायाः समापनं पूर्णाहुति च सप्तविंशतितमे फेब्रुवरीदिने भविष्यति।

---------------

हिन्दुस्थान समाचार