Enter your Email Address to subscribe to our newsletters

13 राज्यानां 185 विश्वविद्यालयीय युवानः सम्मिलिताः
हरिद्वारम्, 23 फ़रवरीमासः (हि.स.)। देवसंस्कृतिविश्वविद्यालये राष्ट्रियसेवायोजनायाः राष्ट्रियएकीकरणशिविरस्य शुभारम्भः सोमवासरे मन्त्रिणी रेखाआर्या द्वारा कृतः।
कार्यक्रमं सम्बोधयन्ती रेखाआर्या उक्तवती यत् अद्यतनः भारतः युवाभारतः अस्ति। युवाशक्तौ तत्सामर्थ्यं विद्यते यत् सा प्रत्येकां चुनौतीम् अवसररूपे परिवर्तयितुं शक्नोति। वर्षपर्यन्तं 2047 विकसितभारतस्य निर्माणस्य संकल्पः अस्माकं युवानां परिश्रमेण नवाचारैः राष्ट्रनिष्ठया च एव पूर्णत्वं गमिष्यति।
सा उक्तवती यत् स एव सत्यः युवा यस्य विचाराः पूताःलक्ष्यं स्पष्टं कर्मणि निष्ठा च अस्ति। अद्य भारतीययुवानां प्रतिभा वैश्विकमञ्चे सम्मानं प्राप्नोति। स्टार्टअप विज्ञान प्रौद्योगिकी क्रीडाक्षेत्रेषु अस्माकं युवानः विश्वपटलपरि भारतस्य प्रतिष्ठां वर्धितवन्तः। आगामिवर्षेषु एते युवानः भारतं विश्वस्य अग्रणीमहाशक्तिरूपे प्रतिष्ठापयिष्यन्ति।
मन्त्रिणी उक्तवती यत् राष्ट्रियएकीकरणशिविरः केवलम् आयोजनं न अपि तु विविधतायां एकता इति भावनायाः सुदृढीकरणस्य सशक्तं माध्यमम् अस्ति। एतादृशाः शिविराः युवानां नेतृत्वक्षमतां अनुशासनं सामाजिकउत्तरदायित्वबोधनं च विकसितवन्ति।
अस्मिन् शिविरे देशस्य त्रयोदशराज्येभ्यः पञ्चाशदधिकैकशतपञ्चाशत् विश्वविद्यालयेभ्यः आगताः सहस्राधिकाः युवानः सहभागिनः सन्ति। पारम्परिकवेशभूषया उपस्थिताः युवानः भारतस्य सांस्कृतिकविविधतायाः राष्ट्रियएकतायाः च सजीवं चित्रं प्रस्तुतवन्तः।
हरिद्वारसांसदः त्रिवेन्द्रसिंहरावतः उक्तवान् यत् एषः शिविरः राष्ट्रियएकतां सांस्कृतिकसमरसतां च सुदृढीकरिष्यति। कार्यक्रमे प्रतिकुलपतिः डॉ चिन्मयपण्ड्या समरदीपसक्सेना शान्तिकुञ्जस्य व्यवस्थापकः योगेन्द्रगिरिः इत्यादयः बहवः गणमान्यजनाः उपस्थिताः आसन्।---------------
हिन्दुस्थान समाचार