टीएमसी उत्तरदायीं पारदर्शिकां च स्वास्थ्य-प्रणालीं निर्मास्यति — मुख्यमन्त्री फडणवीसः
मुंबईनगरम्, २३ फरवरीमासः (हि.स.)। मुंबई-नगरे विधानभवने सोमवासरे देवेंद्रफडणवीस: मुख्यमन्त्री अवदत् यत् ट्रांज़ेक्शन-मैनेजमेंट-सिस्टम (टीएमसी) महाराष्ट्रे रोगिभ्यः पारदर्शकं उत्तरदायीं च सुलभां स्वास्थ्य-प्रणालीं निर्मास्यति। सोमवासरे एव मुंबईस्थित
फाईल फोटो: मुख्यमंत्री देवेंद्र फडणवीस


मुंबईनगरम्, २३ फरवरीमासः (हि.स.)। मुंबई-नगरे विधानभवने सोमवासरे देवेंद्रफडणवीस: मुख्यमन्त्री अवदत् यत् ट्रांज़ेक्शन-मैनेजमेंट-सिस्टम (टीएमसी) महाराष्ट्रे रोगिभ्यः पारदर्शकं उत्तरदायीं च सुलभां स्वास्थ्य-प्रणालीं निर्मास्यति।

सोमवासरे एव मुंबईस्थिते विधानभवने मुख्यमन्त्रिणा देवेंद्र-फडणवीसेन टीएमसी-प्रणाल्याः उद्घाटनं कृतम्। तेन उक्तं यत् राज्य-सर्वकारः आयुष्मान-भारत-प्रधानमंत्री-जन-आरोग्य-योजना तथा महात्मा-ज्योतिराव-फुले-जन-आरोग्य-योजना इत्येताभ्याम् अन्तर्गतं शीघ्रं पारदर्शकं च रोगी-हिताय सुलभं उपचारं प्रदातुं निरन्तरं प्रयतते। तथैव महाराष्ट्रे महात्मा-ज्योतिराव-फुले-जन-आरोग्य-योजनाया: अन्तर्गतं निर्धनानां आवश्यकताग्रस्तानां च रोगिणां उपचारः क्रियते इति अपि तेन निर्दिष्टम्।

मुख्यमन्त्रिणा उक्तं यत् टीएमसी-माध्यमेन राज्यस्य ४५३७ चिकित्सालयेषु २३९९ रोगाणां निःशुल्क-उपचारः प्रदास्यते। टीएमसी-प्रणाल्या रोगी-पञ्जीकरणात् आरभ्य उपचार-समाप्तेः पर्यन्तं सम्पूर्णः प्रक्रियाक्रमः पूर्णतयाडिजिटल्, पारदर्शकः, अन्तर्जाल-रूपेण च भविष्यति। रोगी-पञ्जीकरणं अन्तर्जाल-बायोमेट्रिक-प्रणाल्या भविष्यति; उपचार-अनुमोदनस्य प्रक्रिया शीघ्रा भविष्यति; उपचार-स्थितेः डिजिटल-निगमनं (ट्रैकिंग्) च भविष्यति। डिजिटल-कृत्रिम-बुद्धिमत्ता-निरीक्षणेन (AI मॉनिटरिंग्) सूचनानां समाधानं क्रियते इति अपि सूचितम्।

अस्याः योजनायाः सन्दर्भे कस्यापि अनियमस्य सम्भवे सहायतार्थं १५५३८८ तथा १८००२३३२०० इति सहायक-क्रमाङ्कयोः सम्पर्कं कर्तुं अपि आह्वानं कृतम्।

अस्मिन् कार्यक्रमे प्रकाश-अबितकर: स्वास्थ्य-मन्त्री, मेघना बोर्डिकर-साकोरे स्वास्थ्य-राज्यमन्त्री, डॉ.पंकजभोयर:, योगेश: कदम, सचिवौ डॉ.विनायकनिपुण: तथा ई.रवींद्रन, जन-आरोग्य-योजनायाः सीईओ चव्हाण: इत्यादयः गणमान्याः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता