पलायनम् अवरोद्धुं सीमांत क्षेत्र योजनानां क्रियान्वयने तीव्रता अनीता - मुख्यसचिवः
देहरादूनम्, 24 फरवरीमासः (हि.स.)। उत्तराखंड शासनस्य मुख्यसचिवः आनंद बर्धन सम्बन्धितविभागीयाधिकारिणः निर्देशितवान् यत् पलायननिवारणाय सीमांतक्षेत्रेषु जीविकया आजीविकासम्बद्धयोजनानां क्रियान्वयने कस्मिंश्चिद् अपि स्तरे न्यूनता न भवेत्। मङ्गलवासरे मुख
मुख्य सचिव आनंद बर्धन।


देहरादूनम्, 24 फरवरीमासः (हि.स.)। उत्तराखंड शासनस्य मुख्यसचिवः आनंद बर्धन सम्बन्धितविभागीयाधिकारिणः निर्देशितवान् यत् पलायननिवारणाय सीमांतक्षेत्रेषु जीविकया आजीविकासम्बद्धयोजनानां क्रियान्वयने कस्मिंश्चिद् अपि स्तरे न्यूनता न भवेत्।

मङ्गलवासरे मुख्यसचिवबर्धनस्य अध्यक्षतायां मुख्यमंत्रीपलायननिरोधयोजना तथा मुख्यमंत्रीसीमांतक्षेत्रविकासकार्यक्रमस्य अनुवीक्षणसमितेःउपवेशनम् आसीत्। तेन उक्तं यत् जनपदेभ्यः प्राप्तप्रस्तावानां अनुमोदनप्रक्रिया शीघ्रीक्रियेत, निश्चितकालसीमायां सर्वाणि कार्याणि पूर्णानि क्रियन्ताम्। पूर्वक्रियान्वयनस्य समीक्षा कृत्वा योजनानां धरातलीयपरिणामाः सुनिश्चिताः क्रियन्ताम् इति अपि विशेषतः बलं दत्तम्।

मुख्यसचिवः अवदत् यत् योजनाक्रियान्वयने लक्षितदृष्टिकोणः संसाधनाधारितहस्तक्षेपः च अनिवार्यः अस्ति। येषु ग्रामेषु एताः योजनाः संचालिताः सन्ति, ते अन्येषां सीमांतग्रामाणां कृते प्रेरणादायिमॉडलरूपेण स्थाप्यन्ताम् इति निर्देशः दत्तः। सीमांतग्रामेषु उपलब्धसंसाधनानां न्यूनतानां च वैज्ञानिकाध्ययनं कृत्वा तदनुरूपं योजनाः कार्यान्विताः क्रियन्ताम्।

पलायनआयोगस्य उपाध्यक्षः एसएसनेगी अवदत् यत् योजनानां प्रभावः दृश्यते, किन्तु उत्तमक्रियान्वयनस्य आवश्यकता अस्ति। वर्षे २०२५–२६ मध्ये पलायननिरोधयोजनायाः अन्तर्गतं द्वादशजनपदेषु नवतियोजनाः, सीमांतक्षेत्रविकासकार्यक्रमस्य अन्तर्गतं पञ्च सीमांतजनपदेषु चिह्नितविकासखण्डेषु १५५ योजनाः प्रस्ताविताः सन्ति।

मुख्यसचिवेन उभयोः योजनयोः प्रगतौ तीव्रता आनयितुं निर्देशाः दत्ताः। एषा पलायननिरोधयोजना उत्तराखण्डस्य ५० प्रतिशतपर्यन्तं पलायनप्रभावितेषु ४७४ ग्रामेषु परिवारान् निर्जीविकायुवान् रिवर्समाइग्रेण्ट्स इत्यादीन् स्वरोजगारे स्थापयितुं संचाल्यते। सीमांतक्षेत्रविकासकार्यक्रमेण पञ्च सीमांतजनपदेषु सतताजीविका स्वरोजगारसंसाधनप्रदानद्वारा पलायननिरोधः रिवर्समाइग्रेशनप्रोत्साहनं च क्रियते।

उपवेशने सचिवः सचिनकुर्वे डीएसगब्रियाल विशेषसचिवा निवेदिताकुकरेती अपरसचिवा अनुराधापाल झरनाकमठान हॉफवनविभागस्य रंजनकुमारमिश्रः च अन्ये सम्बन्धिताधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार