Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २४ फरवरीमासः (हि.स.)। पश्चिमबङ्गप्रदेशे कृत्रिमबुद्ध्या (एआई) सह अवैधमतदाता–परिचयपत्रस्य (वोटर–आईडी) निर्माणं कृत्वा समर्पणस्य गंभीरः विषय: प्रकाशितः। एषः विषय: उत्तर–२४ परगना–जनपदस्य भाङ्गर–विधानसभा–क्षेत्रे (एसी–१४८) मतदाता–सूच्याः विशेष–गहन–पुनरीक्षणे (एसआईआर) सामान्य–निरीक्षणकाले उद्घाटितः।
प्राप्तसूचनानुसारं, मतदाता जन्नातुन् मोल्ला स्वपित्रेण हासेम् मोल्ला इत्यनेन सह सम्बन्धस्य प्रमाणाय एआई–सृजितं मतदाता–परिचयपत्रं प्रस्तुतवान्। एतत् कर्गदम् एव सम्बन्ध–प्रतिष्ठापनस्य एकमेव प्रमाणम् आसीत्। आश्चर्यकारकम् यत् प्रारम्भिक–स्तरे एतत् अवैध–प्रमाणपत्रं स्वीक्रियते स्म, तथा निरीक्षणकाले कतिपयै: निर्वाचन–अधिकारीभि: एतत् “फाउण्ड ओके” इति चिह्नितं कृतम्।अनन्तरं निरीक्षणे स्पष्टम् अभवत् यत् परिचयपत्रे अंकितः ईपीआईसी्–संख्या पूर्णतया अवैधा आसीत्। तथा पत्रे “एआई जेनरेटेड” इति जल–चिन्हम् अपि उपलब्धम, तस्मात् तस्य कृत्रिम–सृजनस्य पुष्टि: अभवत्।
अस्यामेव घटनायाम् भारतीयजनतापक्षस्य (भा.ज.पा.) आईटी–सेल–प्रमुखः अमितमालवीयः सोमवासरे रात्रौ सामाजिक–माध्यमे ‘एक्स’ इत्यस्मिन् मंचे घटनां प्रकाशितवान् तथा राज्यस्य निर्वाचन–व्यवस्थायाः विषये प्रश्नान् उत्तोलितवान्। स: व्यङ्ग्यात्मक–टिप्पण्या उक्तवान् – “एषः कुख्यातः डायमण्ड् हार्बर-आदर्श: अस्ति।”
अमितमालवीयस्य टिप्पणीं तृणमूल–कांग्रेस–शासिते राज्ये निर्वाचन–प्रक्रियायाः पारदर्शितायाः तथा प्रशासनिक–सतर्कतायाः प्रत्यक्ष–आक्रमणं इव गृहीतम्। एषा डायमण्ड् हार्बर–सन्दर्भः कथित–असमान्यतायाः व्यापक–स्तरे इङ्गितं कर्तुम् प्रयुज्यत।
अस्य प्रकरणस्य उद्घाटनेन मतदाता–सत्यापन–प्रणाली, कर्गद–निरीक्षण–प्रक्रिया च एआई–संभाव्य–दुरुपयोगस्य विषये गंभीरं चिन्तन–वातावरणं उत्पन्नम् अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता