Enter your Email Address to subscribe to our newsletters


-वित्त मंत्री ओपी चाैधरी अद्य प्रस्तोष्यन्ति छत्तीसगढस्य वित्तीयप्रस्तावः
रायपुरम् 24 फ़रवरीमासः (हि.स.)।
छत्तीसगढ़ राज्यस्य वार्षिकविनियोगपत्रम् अद्य मंगलवासरे मध्याह्ने द्वादशवादनत्रिंशत्समये प्रस्तुतं भविष्यति। वित्तमन्त्री ओपी चौधरी विनियोगपत्रं प्रस्तोष्यति।तथा च मुख्यमन्त्री विष्णुदेव साय वित्तवर्षस्य २०२६–२७ कृते प्रस्तुत्यमानं विनियोगपत्रं छत्तीसगढ़स्य समग्रविकासस्य दिशि महत्वपूर्णं पदम् इति उक्त्वा प्रदेशवासिभ्यः शुभकामनाः अयच्छत्। सः अवदत् यत् नवीनविधानसभाभवने प्रस्तुत्यमानं अस्माकं शासनस्य तृतीयं विनियोगपत्रं विकसितसमृद्धछत्तीसगढ़निर्माणाय शासनस्य दृष्टिकोणं नूतनां दृढतां दास्यति।
अद्य सः स्वस्य सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र लेखं प्रकाशितवान् यत् एतत् विनियोगपत्रं समावेशिविकासस्य सुशासनस्य जनकल्याणस्य च संकल्पं अग्रे नयिष्यति। सः विश्वासं व्यक्तवान् यत् एतत् विनियोगपत्रं प्रदेशस्य अर्थव्यवस्थां सुदृढां करिष्यति तथा सामान्यजनानां जीवनस्तरे सकारात्मकपरिवर्तनं जनयिष्यति।
मुख्यमन्त्री उक्तवान् यत् नरेन्द्र मोदी द्वारा प्रतिपादितं ‘विकसितभारत २०४७’ इति राष्ट्रियसंकल्पं केन्द्रे स्थापयित्वा छत्तीसगढ़शासनं विकसितछत्तीसगढ़निर्माणदिशि निरन्तरं कार्यं करोति। कृषकाणां दरिद्राणां युवानां मातृशक्तेः आदिवासीसमाजस्य च सशक्तीकरणं शासनस्य सर्वोच्चप्राथमिकता अस्ति। राज्यशासनस्य विविधाः योजनाः समाजस्य अन्तिमपुरुषपर्यन्तं विकासफलप्रदानाय सञ्चालिताः सन्ति।
मुख्यमन्त्री साय अवदत् यत् वित्तवर्षस्य २०२६–२७ एतत् विनियोगपत्रं प्रदेशस्य “सुशासनसमृद्धि” आदर्शं दृढाधारं प्रदास्यति तथा विकासगत्याः अधिकं वेगं जनयिष्यति। एतत् विनियोगपत्रं राज्यस्य आधारभूतसंरचनानिर्माणे रोजगारसृजने कृषिउन्नयने सामाजिकसुरक्षायां मानवसंसाधनविकासे च नूतनां दिशां दास्यति।
हिन्दुस्थान समाचार