Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ फरवरीमासः (हि.स.)। मुख्यमन्त्री रेखा गुप्ता मङ्गलवासरे मुंडका–विधानसभा–क्षेत्रे द्विशत–कोटि–रूप्यकेभ्य: अधिकमूल्यानां विकास–कार्याणां शिलान्यासं कृतवती। सा अवदत्— एतत् तु केवलं प्रारम्भ एव; अग्रिम-चतुर्षु वर्षेषु दिल्ली–देहातस्य प्रत्येकं ग्रामं पक्व–मार्गैः, सुदृढ–निष्कासन–व्यवस्थया, शुद्ध–जल–आपूर्त्या, आधुनिक–विद्यालयैः तथा उत्तम–स्वास्थ्य–सुविधाभिः सह संयोजयिष्यते।मुख्यमन्त्रिणा सामाजिक–माध्यमे एक्स–इत्यत्र प्रकाशिता सूचनाऽभिहिता यत्— गतवर्षे अस्माकं सर्वकारेण अन्त्योदय–संकल्पेन सह ग्रामीण–दिल्ली–प्रदेशे मार्ग:, जलम्, सीवरेज्, शिक्षा, स्वास्थ्यम् तथा अन्यावश्यक–सौविध्यानां विकासः शीघ्रगत्या प्रवर्तितः। यानि क्षेत्राणि वर्षानुवर्षं उपेक्षितानि आसन्, तेष्वधुना विकासस्य नूतना रेखा आरेख्यते इति सा अवदत्।
मुख्यमन्त्रिणा उक्तं यत्— दीर्घकालं उपेक्षितं दिल्ली–ग्राम–विकास–विभागं पुनः सक्रियं कृत्वा सहस्र–कोटि–रूप्यकाणां वित्त–प्रावधानं कृतम्, येन ग्रामाणां विकासः निरन्तरं प्रवर्धेत। केवलं एकस्मिन्नेव वर्षे प्रधानमन्त्री नरेन्द्र–मोदिन: मार्गदर्शनेन ग्रामीण–दिल्लीं विकसित–दिल्लीत्यस्य सुदृढां आधारशिलां करण-दिशि दृढा: उपायाः स्वीकृताः इति सा अवदत्।
अस्मिन् अवसरे भाजपा–सांसदः योगेन्द्र–चन्दोलिया, मन्त्रिमण्डल–मन्त्री कपिल–मिश्रः, दिल्ली–ग्राम–विकास–विभागस्य अध्यक्षः राजकुमार–चौहानः, विधायकः गजेन्द्र–दरालः च उपस्थिताः ।
हिन्दुस्थान समाचार / अंशु गुप्ता