बिहार–आरक्षक–सप्ताह–२०२६ इत्यस्य सामूहिक–संचलनेन सह वार्षिक–पारितोषिक–वितरण–कार्यक्रमे मुख्यमन्त्री सहभागं कृतवान्
पटनानगरम्, २४ फरवरीमासः (हि.स.)। अद्य नीतीशकुमारः मुख्यमन्त्री बिहार–विशेष–सशस्त्र–आरक्षक–५ मध्ये स्थिते मिथिलेश–क्रीडाप्रांगणे (पटना) बिहार–आरक्षक–सप्ताह–२०२६–अवसरे आयोजिते सामूहिक–संचलनेन सह–वार्षिक–पारितोषिक–वितरण–समारोहे सहभागी अभवत्। अस्मिन्
मिथिलेश स्टेडियम में बिहार पुलिस सप्ताह-2026 के अवसर पर  आयोजित सामूहिक परेड-सह- पारितोषिक वितरण कार्यक्रम में भाग लेते हुए मुख्यमंत्री तीश कुमार


मिथिलेश स्टेडियम में बिहार पुलिस सप्ताह-2026 के अवसर पर  आयोजित सामूहिक परेड-सह- पारितोषिक वितरण कार्यक्रम में भाग लेते हुए मुख्यमंत्री


पटनानगरम्, २४ फरवरीमासः (हि.स.)। अद्य नीतीशकुमारः मुख्यमन्त्री बिहार–विशेष–सशस्त्र–आरक्षक–५ मध्ये स्थिते मिथिलेश–क्रीडाप्रांगणे (पटना) बिहार–आरक्षक–सप्ताह–२०२६–अवसरे आयोजिते सामूहिक–संचलनेन सह–वार्षिक–पारितोषिक–वितरण–समारोहे सहभागी अभवत्।

अस्मिन् अवसरे मुख्यमन्त्री रैतिक–संचलनस्य (मार्च–पास्ट्) निरीक्षणं कृतवान्, प्रणामं च स्वीकृतवान्। मुख्यमन्त्रिणः सम्मुखं विशेष–कार्य–बलम् (बिहार, पटना), बिहार–विशेष–सशस्त्र–आरक्षक: (गोरखा–वाहिनी), बिहार–युद्ध–निरोधी–वाहिनी, बिहार–स्वाभिमान–विशेष–सशस्त्र–बलम्, बिहार–विशेष–सशस्त्र–आरक्षक:, महिला–सासाराम–दलम् इत्यादिभि: सह समग्रतया अष्टदलानि संचलनम् अकुर्वन्।

कार्यक्रमसमये मुख्यमन्त्रिणा उत्कृष्ट–कार्याय गयाया: वरीय–आरक्षक–अधीक्षकं सुशील–कुमारं, आरक्षक–अवर–निरीक्षकं अनिरुद्ध–कुमारं, तथा स्व.बिश्वा–उरांवस्य धर्मपत्नीं प्रशस्ति–पत्रेण सम्मानिताः। तथैव, कर्तव्य–निर्वहण–वीरतायै आरक्षकाणां सहयोगं कृतवन्तः सामान्य–नागरिकाः— रोहतास–जनपदात् मो.अख्तर–अंसारी तथा ओमप्रकाश–पाण्डेयः, बेगूसराय–जनपदात् अमित–कुमारः तथा आनन्द–माधव–मिश्रः, बगहा–जनपदात् लक्ष्मी–खत्री, पूर्वी–चम्पारण–जनपदात् सुनील–प्रसादः, उतीम–गद्दी तथा रविन्द्र–कुमारः, मधुबनी–जनपदात् राजू–कामत्, दरभङ्गा–जनपदात् डाॅ. इक़बाल–हसनः, धीरज–कुमार–यादवः तथा अमन–यादवः— इत्येते नागरिक–प्रशस्ति–पत्रैः सम्मानिताः।

तदनन्तरं मुख्यमन्त्रिणा केन्द्र–सर्वकारेण विशिष्ट–थानाय प्रदत्तं प्रशस्ति–पत्रम् दरभङ्गा–नगर–थानाय सम्बन्धितान् आरक्षक–पदाधिकरिणः प्रति प्रदत्तम्। समारोहे आरक्षक–महानिदेशकः विनय–कुमारः पुष्प–गुच्छं स्मृति–चिह्नं च समर्प्य मुख्यमन्त्रिणः स्वागतं कृतवान्। अस्मिन् अवसरे उप–मुख्यमन्त्री सम्राट–चौधरिणा सह अन्ये वरीय–आरक्षक–पदाधिकरिणः तथा आरक्षक–कर्मिणः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता