Enter your Email Address to subscribe to our newsletters

राँचीनगरम्, २४ फरवरीमासः (हि.स.)। राज्यसर्वकारस्य प्रस्तावितं आम–वित्तविवरतं प्रति प्रतिक्रिया प्रदत्तवान् झारखण्ड–प्रदेश–कांग्रेस–समितेः अध्यक्षः केशवमहतो कमलेश:। स: अवदत् यत् एतत् वित्तविवरणं राज्यस्य समग्र–विकासस्य, सामाजिक–न्यायस्य तथा आर्थिक–सशक्तिकरणस्य दिशि दृढः दूरदर्शी च पदक्षेप: अस्ति। मङ्गलवासरे प्रतिक्रियां प्रदातुं सः अवदत् यत् एतत् वित्तविवरणं केवलं वर्तमान–आवश्यकतान् एव न पश्यति, किन्तु भविष्यस्य समस्यानां समाधानाय स्पष्ट–रूपरेखां अपि प्रदत्तम् अस्ति।
कमलेशेन उक्तं यत् सर्वकारेण शिक्षायाः, स्वास्थ्यस्य, कृषेः तथा आधारभूत–संरचनायाः प्रमुखेषु क्षेत्रेषु सम्यक् तथा प्रभावकारी–प्रावधानं कृतम्। ग्रामीण–विकासे कृषक–आयवृद्धये च विशेष–योजनानां विस्तारः राज्यस्य अर्थव्यवस्थायै दृढ–आधारं प्रदास्यति। सिंचनम्, मार्गः, विद्युत् च इत्यादिषु आधारभूत–सुविधासु वर्धित: निवेशः ग्रामीण–शहरीक्षेत्रयोः मध्ये अन्तरं न्यूनं कर्तुं साहाय्यकं भविष्यति।
युवा–वर्गाय आजीविका–सृजनम्, कौशल–विकासः, आजीविका–प्रोत्साहनं च अत्यन्तं प्रशंसनीयं इति कमलेशः उक्तवान्। एतेन राज्यस्य युवान: स्वस्य प्रदेशे उत्तमानि अवसराणि प्राप्स्यन्ति तथा पलायनस्य समस्या न्यूनं भविष्यति। स्त्री–सशक्तिकरणे, छात्रवृत्ति–योजनासु तथा सामाजिक–सुरक्षा–कार्यक्रमेषु वृद्धिः समाजस्य दुर्बल–वर्गान् प्रति सर्वकारस्य प्रतिबद्धतां प्रकाशयति।
हिन्दुस्थान समाचार / अंशु गुप्ता