एसआईआर : चतसृषु सीमावर्ती जिल्लासु न्यायिक अधिकारिणोऽयाचन्त विशेषसुरक्षाम्
कोलकाता, 24 फरवरीमासः (हि.स.)। पश्चिमबङ्गराज्ये मतदातासूच्याः विशेषगहनपुनरीक्षणस्य अन्तर्गतं तार्किकविसंगति इति श्रेण्यां चिन्हितानां मतदातॄणां प्रतिवेदनानां न्यायिकपरीक्षणप्रक्रिया सोमवासरात् आरब्धा। अस्मिन् मध्ये भारतबाङ्ग्लादेशसीमया संलग्नेषु च
मुख्य चुनाव अधिकारी मनोज अग्रवाल


कोलकाता, 24 फरवरीमासः (हि.स.)। पश्चिमबङ्गराज्ये मतदातासूच्याः विशेषगहनपुनरीक्षणस्य अन्तर्गतं तार्किकविसंगति इति श्रेण्यां चिन्हितानां मतदातॄणां प्रतिवेदनानां न्यायिकपरीक्षणप्रक्रिया सोमवासरात् आरब्धा।

अस्मिन् मध्ये भारतबाङ्ग्लादेशसीमया संलग्नेषु चतुर्षु जनपदेषु नियुक्ताः न्यायिकाधिकारी सुरक्षा भेदघटनानां अनन्तरं विशेषसुरक्षायाः आग्रहं कृतवन्तः। एषा प्रक्रिया उच्चतम न्यायालयस्य नवीननिर्देशानुसारं प्रारब्धा। ये चत्वारः जनपदाः सन्ति ते मालदा मुर्शिदाबाद उत्तर चतुर्विंशतिपरगना दक्षिण चतुर्विंशतिपरगना इति। एतेषां सर्वेषां जनपदानां अन्ताराष्ट्रियसीमा बाङ्ग्लादेशेन सह संलग्ना अस्ति, दक्षिण चतुर्विंशतिपरगनाजनपदस्य अधिकांशभागः तटीयसीमया अपि सम्बद्धः अस्ति।

मुख्यनिर्वाचनाधिकारी पश्चिमबङ्गकार्यालयस्य सूत्रानुसारं भारतनिर्वाचनायोगेन न्यायिकाधिकारिणां आशंकाः गम्भीरतया स्वीकृताः सन्ति तथा राज्यपुलिसप्रशासनाय तेषां व्यापकसुरक्षाप्रदानाय निर्देशः दत्तः।

सूत्राणां कथनानुसारं तार्किकविसंगति श्रेण्यां चिन्हितानां प्रायः पञ्चाशल्लक्षमतदातॄणां दस्तावेजाः न्यायिकपरीक्षणाय प्रेषिताः। तेषु अधिकतमाः प्रकरणाः मुर्शिदाबादजनपदात् सम्बद्धाः इति कथ्यते, यद्यपि आयोगेन अद्यापि निश्चितसंख्या सार्वजनिकीकृता नास्ति।

परीक्षणप्रक्रियासम्बद्धानां न्यायिकाधिकारिणां प्रति प्रत्येकस्मिन् प्रकरणे दस्तावेजस्वीकारणस्य अस्वीकारणस्य वा स्पष्टकारणानि अभिलेखयितुं निर्देशः दत्तः। तेन सह प्रतिदिनं प्रगतिवृत्तान्तः कलकत्ताउच्चन्यायालयाय समर्पणीयः, यत् सम्पूर्णप्रक्रियायाः सक्रियपर्यवेक्षणं करोति।

निर्धारितकार्यक्रमानुसारं राज्यस्य अन्तिममतदातासूची अष्टाविंशतितमे फेब्रुवरीमासे प्रकाशितव्या, किन्तु न्यायिकपरीक्षणाय संदर्भितानि प्रकरणानि तस्मात् पृथक् स्थाप्यन्ते। परीक्षणसमाप्तेः अनन्तरं अनुपूरकमतदातासूची प्रकाशितव्या, यस्यां सत्यापनानन्तरं पात्रतां प्राप्तानां मतदातॄणां नामानि संयोजितानि भविष्यन्ति।

अधिकारिणां सम्मुखे महद् आव्हानम् अस्ति यत् तार्किकविसंगति श्रेण्यां प्रेषितानां प्रायः पञ्चाशल्लक्षप्रकरणानां निस्तारणं किम् अष्टाविंशतितमे फेब्रुवरीपूर्वं सम्भविष्यति इति। उच्चतमन्यायालयस्य निर्देशानन्तरं न्यायिकपर्यवेक्षणे प्रवर्तमानायाः अस्याः प्रक्रियायाः विषये सर्वेषां दृष्टयः निबद्धाः सन्ति।

हिन्दुस्थान समाचार