Enter your Email Address to subscribe to our newsletters

मुंबई, 24 फरवरीमासः (हि.स.)। भारतीयजनतादलस्य प्रदेशाध्यक्षः रवीन्द्र चव्हाणो मङ्गलवासरे दलस्य नूतनां राज्यकार्यकारिणीं घोषितवान्। अस्याम् कार्यकारिण्यां द्वादश उपाध्यक्षाः षट् महासचिवाः द्वादश सचिवाः कोषाध्यक्षः संयुक्तकोषाध्यक्षः मुख्यप्रवक्ता विविधमोर्चाध्यक्षाः च समाविष्टाः सन्ति।
रवीन्द्र चव्हाण मुम्बईस्थिते प्रदेशकार्यालये आयोजितायां पत्रकारवार्तायां उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी केन्द्रीयगृहमन्त्री अमित शाह मुख्यमन्त्री देवेंद्र फडणवीस च तेषां नेतृत्वे, राष्ट्रीयाध्यक्षस्य नितिन नबीन केन्द्रीयसंगठनमन्त्री बी एल संतोष सहसंगठनमन्त्री शिवप्रकाश च तेषां मार्गदर्शने तथा सर्वैः वरिष्ठनेतृभिः सह विचारविमर्शानन्तरं महाराष्ट्रभाजपायाः नूतना कार्यकारिणी घोषिताऽस्ति।
चव्हाण उक्तवान् यत् निरन्तरं सम्पन्नमानानां निर्वाचनानां कारणात् नूतनकार्यकारिण्याः घोषणायां विलम्बः अभवत्। एषा कार्यकारिणी भाजपायाः विचारधारां मनसि निधाय निर्मिता अस्ति।
नूतनकार्यकारिण्यां अतुल कालसेकर भारती पवार संजय कोडगे संजयभेटें रामदास तड़स केशव उपाध्ये प्रवीण पोटे गोपीचन्द पडलकर चैतन्यबापू देशमुख प्रिया शिंदे सुजय विखे पाटिल अर्चना पाटिल चाकुरकर एते सर्वे प्रदेशोपाध्यक्षाः नियुक्ताः। निरंजन डावखरे योगेश सागर संजय कुटे माधवी नाइक राजेश पांडे सुनील राणे एते प्रदेशमहासचिवपदे नियुक्ताः। नवनाथ बान भाजपा प्रदेशमुख्यप्रवक्ता नियुक्तः।
रवीन्द्र चव्हाण उक्तवान् यत् प्राचीनाः नूतनाश्च निष्ठावन्तः कार्यकर्तारः पदाधिकरिरूपेण नियुक्ताः सन्ति तथा सर्वेऽपि एते दलस्य विचारधारानुसारं कार्यं करिष्यन्ति।अस्मिन् अवसरे प्रदेशमहासचिवः राजेश पांडे राज्यप्रधानालयप्रभारी रवीन्द्र अनासपुरे मीडिया विभागप्रमुखः नवनाथ अन्ये च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार