क्रियान्वयने पारदर्शिता, तत्परता संवेदनशीलता च आवश्यकी - राज्यपालः पटेलः
- राज्यपाल पटेलो मुख्यमंत्री दुधारू पशुप्रदाय योजनानां विहिता समीक्षा भोपालम्, 24 फरवरीमासः (हि.स.)।मध्यप्रदेशस्य राज्यपालः मंगुभाई पटेल उक्तवान् यत् मुख्यमन्त्री दुधारू पशुप्रदाय योजना अतीव दरिद्रजनस्य जीवनमध्ये सुखसमृद्धिं आनयितुं उपक्रमः अस्
राज्यपाल मंगुभाई पटेल ने मुख्यमंत्री दुधारू पशुप्रदाय योजना की समीक्षा की


- राज्यपाल पटेलो मुख्यमंत्री दुधारू पशुप्रदाय योजनानां विहिता समीक्षा

भोपालम्, 24 फरवरीमासः (हि.स.)।मध्यप्रदेशस्य राज्यपालः मंगुभाई पटेल उक्तवान् यत् मुख्यमन्त्री दुधारू पशुप्रदाय योजना अतीव दरिद्रजनस्य जीवनमध्ये सुखसमृद्धिं आनयितुं उपक्रमः अस्ति। योजनायाः प्रक्रियासु क्रियान्वयने च दरिद्रजनहितं सर्वोच्चप्राथमिकतया स्वीकरणीयम्। तेषां हितानाम् उपेक्षा कदापि न सहनीया इति तेन स्पष्टं कृतम्।

राज्यपालः पटेल मङ्गलवासरे लोकभवने पशुपालन तथा डेयरी विकास विभागेन संचालितायाः मुख्यमन्त्री दुधारू पशुप्रदाय योजना विषये चर्चां कुर्वन् आसीत्। अस्याः गोष्ठ्याः आयोजनं जनजातीय प्रकोष्ठेन कृतम्। अस्मिन् अवसरे राज्यमन्त्री पशुपालन तथा डेयरी विकास लखन पटेल, जनजातीय प्रकोष्ठाध्यक्षः दीपक खांडेकर, राज्यपालस्य प्रमुखसचिवः डॉ नवनीत मोहन कोठारी, प्रमुखसचिवः पशुपालन तथा डेयरी विकास उमाकांत उमराव, जनजातीय प्रकोष्ठस्य सदस्याः अन्ये च अधिकारिणः उपस्थिताः आसन्।

राज्यपालः अवदत् यत् एषा योजना अति पृष्ठवर्तिदरिद्र पीवीटीजी जनजातीनां बैगा भारिया सहरिया इत्यादीनां कल्याणाय प्रवर्तते। योजनायाः प्रक्रियासु क्रियान्वयने च पारदर्शिता तत्परता संवेदनशीलभावना च अनिवार्या। प्रदेशस्य पीवीटीजी जनजातिजनसंख्या युक्तेषु सर्वेषु जिलेषु एषा योजना प्रवर्तनीया इति अपि तेन उक्तम्।राज्यपालाय निवेदितम् यत् योजनायाः अन्तर्गतं पशुवितरणकार्यस्य सामुदायिकनिगराण्यर्थं विशेषप्रावधानानि कृतानि सन्ति। सर्वाभिः दुग्धसमितिभिः संघैश्च मासे दशदिनान्तराले त्रिषु निश्चिततिथिषु भुगतानव्यवस्था सुनिश्चितीक्रियते। दुग्धमूल्ये अपि द्वाभ्यः आरभ्य अष्टार्धरूप्यकपर्यन्तं वृद्धिः कृता। योजनायां आवश्यकसंशोधनानि कृतानि। दुग्धसंग्रहमार्ग परिवहनसुगमतायुक्तेषु ग्रामेषु प्राथमिकतया हितग्राहिणां चयनं भविष्यति, आवश्यकता अस्ति चेत् अन्येषु ग्रामेष्वपि लाभप्रदानं शक्यते।चयनितहितग्राहिभ्यः प्रदायपूर्वं त्रिदिनात्मकं प्रशिक्षणं दीयते। वितरणानन्तरं एकविंशतिदिने त्रिमासे षण्मासे च हितग्राहीवारं समीक्षा क्रियते तथा परिचयात्मकदौरः अपि आयोज्यते। आदौ केवलम् एकस्य पशोः अंशदानराशिं ग्राहयित्वा एकः एव पशुः प्रदीयते। प्रथमपशोः पालनं संतोषजनकं दृश्यते चेत् एव तस्मै त्रिमासानन्तरं द्वितीयः पशुः प्रदाने व्यवस्था कृता अस्ति।

हिन्दुस्थान समाचार