पूर्णिया–एक्स्पो २०२६ इत्यस्य सफल–आयोजनाय नेपालस्य कोसी–प्रोविन्सस्य मुख्यमन्त्री तथा मन्त्रिणः अभिनन्दनं कृतवन्तः
पूर्णियानगरम्, २४ फरवरीमास: (हि.स.)। पूर्णिया–एक्स्पो २०२६ इत्यस्य सफल–आयोजनाय नेपालस्य कोसी–प्रोविन्सस्य मुख्यमन्त्रिणा सह मन्त्रिभिः स्वकीयाः शुभाशयाः अभिनन्दनं च प्रदत्तम्। ''आवाज़ २४ मीडिया एंटरटेनमेंट प्राइवेट लिमिटेड'' संस्थायाः प्रबन्ध–नि
नेपाल कोशी सीएम के साथ पूर्णिया टिम


पूर्णियानगरम्, २४ फरवरीमास: (हि.स.)। पूर्णिया–एक्स्पो २०२६ इत्यस्य सफल–आयोजनाय नेपालस्य कोसी–प्रोविन्सस्य मुख्यमन्त्रिणा सह मन्त्रिभिः स्वकीयाः शुभाशयाः अभिनन्दनं च प्रदत्तम्।

'आवाज़ २४ मीडिया एंटरटेनमेंट प्राइवेट लिमिटेड' संस्थायाः प्रबन्ध–निदेशिका पूजा मिश्रा इत्यनया सह ओमप्रकाश: मिश्रा, राजीवकुमार: तथा कुमारसंकल्प: इत्येतै: नेपालस्य कोसी–प्रोविन्सस्य मुख्यमन्त्री हिक्मतकुमार: कार्की, पर्यटनमन्त्री भीम: पराजुली, वाणिज्यमन्त्री, तथा पर्यटन–वन–वातावरण–विभागस्य सचिवेन सह शिष्टाचार–साक्षात्कार: कृत:, स्मृति–चिह्नं च समर्पितम्।

अस्मिन् अवसरे नेपालस्य मन्त्रिणः पूर्णिया–एक्स्पो २०२६ इत्यस्य सफल–आयोजनाय अभिनन्दनं शुभाशयाः च व्यक्तवन्तः, तथा अग्रिमकाले अपि उत्तमानाम् एक्स्पो–आयोजनानां कृते स्वसमर्थनं मार्गदर्शनं च प्रदास्याम इति आश्वासनं दत्तवन्तः।

अस्मिन् एव अवसरे नेपाल–कोसी–प्रोविन्सस्य मुख्यमन्त्री हिक्मतकुमार: कार्की अवदत्— “पूर्णिया–एक्स्पो २०२६ इत्यस्य सफल–आयोजनाय अहं स्वकीयाः शुभाशयाः ददामि। एतत् आयोजनं नेपाल–भारतयोः सांस्कृतिकान् आर्थिकान् च सम्बन्धान् अधिकं दृढीकर्तुं सहायकः भविष्यति।”

पर्यटनमन्त्री भीम: पराजुली अवदत्— “पूर्णिया–एक्स्पो २०२६ एकं भव्यं आयोजनम् अस्ति, यः नेपाल–भारतयोः सांस्कृतिकान् आर्थिकान् च सम्बन्धान् दृढीकर्तुं समर्थः। एतत् आयोजनं सफलं भविष्यति तथा परस्पर–सम्बन्धानां सुदृढतां करिष्यति।”

वाणिज्यमन्त्री अवदत्— “पूर्णिया–एक्स्पो २०२६ इत्यस्य सफल–आयोजनाय अहं अभिनन्दनं करोमि। एतत् आयोजनं नेपालस्य उत्पादानां भारतीय–विपणे प्रवेशाय सहायकः भविष्यति।” पर्यटन–वन–वातावरण–विभागस्य सचिवः अवदत्— “पूर्णिया–एक्स्पो २०२६ एकं महत्त्वपूर्णं आयोजनम् अस्ति, यत् नेपालस्य पर्यटनस्य उद्योगस्य च संवर्धने सहायकं भविष्यति।”

कोसी–पर्यटन–वर्ष २०८२ इत्यस्य सह–संयोजकः भविषकुमारश्रेष्ठ: अवदत्— “पूर्णिया–एक्स्पो २०२६ इत्यस्य सफल–आयोजनाय अहं नेपालस्य मन्त्रिण: प्रति कृतज्ञतां व्यक्तयामि। एतत् आयोजनं नेपाल–भारतयोः व्यापारं पर्यटनं च प्रोत्साहयितुं सहायकः भविष्यति। वयं अग्रिमकाले अपि नेपाल–सहयोगेन अस्य आयोजनस्य सफलतायै निरन्तरं प्रयत्नं करिष्यामः।”

हिन्दुस्थान समाचार / अंशु गुप्ता