सनातनिभ्यस्तीर्थराज पुष्करः मंतव्यः । एतत्ऐतिहासिकस्थलम् : विधायकः  बालमुकुंदः आचार्यः
जयपुरम्, 24 फ़रवरीमासः (हि.स.)। विधानसभापरिसरे माध्यमप्रतिनिधिभिः सह संवादे हवामहलविधायकः बालमुकुंद आचार्य अवदत् यत् सर्वेषां स्वस्वा आस्था स्वस्वो विश्वासश्च अस्ति, अतः सर्वेषां सम्मानः करणीयः। कस्यापि विश्वासे आस्थायां वा विघ्नः न कर्तव्यः। अहं
सनातनियों को तीर्थराज पुष्कर जाना चाहिए यह ऐतिहासिक जगह : विधायक  बालमुकुंद आचार्य


जयपुरम्, 24 फ़रवरीमासः (हि.स.)।

विधानसभापरिसरे माध्यमप्रतिनिधिभिः सह संवादे हवामहलविधायकः बालमुकुंद आचार्य अवदत् यत् सर्वेषां स्वस्वा आस्था स्वस्वो विश्वासश्च अस्ति, अतः सर्वेषां सम्मानः करणीयः। कस्यापि विश्वासे आस्थायां वा विघ्नः न कर्तव्यः। अहं सनातनी अस्मि इति उक्त्वा सः अवदत् यत् अजमेरं गच्छन्तः तीर्थराजे पुष्कर स्नानं कुर्वन्तु, ब्रह्मा मंदिर इत्यत्र दर्शनं कृत्वा पुण्यं संचिन्वन्तु।

तेन उक्तं यत् सनातनिनां सम्यग् अवगमनस्य आवश्यकता अस्ति, पृथ्वीराज चौहान स्मरणस्य, इतिहासपठनस्य ज्ञानस्य च आवश्यकता वर्तते। कः देशः कथं निर्मितः, कस्य स्वामित्वं च अस्ति, एतत् अपि ज्ञातव्यं। मम वक्तव्यस्य सम्यगध्ययनं कृत्वा जनाः स्वयमेव पुष्करगमनं श्रेयस्करं मन्येरन्। सनातनिनां कृते तीर्थराजः पुष्करः विशेषमहत्त्वं धारयति इति सः अवदत्।

सः अपि अवदत् यत् भारतीय राष्ट्रीय कांग्रेस तथा तस्य मित्रपक्षाः सनातनसंस्कृतेः आध्यात्मस्य धर्मस्य रामकथनस्य च विषये सदा आपत्तिं कुर्वन्ति। धर्मगुरुषु आपत्तिजनकशब्दप्रयोगः, रामं काल्पनिकम् इति कथनं, तथा यदा कदाचित् आध्यात्म सनातनभारतीयसंस्कृतिविषये चर्चा भवति तदा तस्याः विपक्षे स्थितिः—एषा तेषां रीतिर्नीति: स्वभावश्च इति तेन निर्दिष्टम्।

जनसंख्यानियन्त्रणविषये अपि पुनर्विचारस्य आवश्यकता अस्ति इति तेन प्रतिपादितम्, तत् व्यक्तिगतविषयः इति अपि सः अभ्यधात्।

---------------

हिन्दुस्थान समाचार