मध्य-कमान-अलंकरण-समारोहे वीरत्वस्य तथा उत्कृष्ट-सेवाया: च सम्मानं कृतम्
देहरादूननगरम्, २४ फरवरीमास: (हि.स.)। मध्य-कमान-अलंकरण-समारोहे भारतीय-सेनायाः कर्मिणः तथा दलानि स्वस्य शौर्यस्य, विशिष्ट-सेवायाः तथा व्यावसायिक-उत्कृष्टतायाः कृते सम्मानिताः अभवन्। मङ्गलवासरे क्लेमेंटटाउन-क्षेत्रे सैन्य-परम्पराभिः सह आयोजितस्य समार
मध्य कमान अलंकरण समारोह- 2026 क्लेमन टाउन देहरादून में।


देहरादूननगरम्, २४ फरवरीमास: (हि.स.)। मध्य-कमान-अलंकरण-समारोहे भारतीय-सेनायाः कर्मिणः तथा दलानि स्वस्य शौर्यस्य, विशिष्ट-सेवायाः तथा व्यावसायिक-उत्कृष्टतायाः कृते सम्मानिताः अभवन्।

मङ्गलवासरे क्लेमेंटटाउन-क्षेत्रे सैन्य-परम्पराभिः सह आयोजितस्य समारोहस्य अध्यक्षतां मध्य-कमानस्य जनरल-ऑफिसर-कमान्डिङ्-इन-चीफ लेफ्टिनेन्ट-जनरल् अनिन्द्य-सेनगुप्तः अकरोत्। समारोहे मध्य-सेना-कमान्डर-इत्यनेन सेवारत-पूर्व-सैनिकानां कृते उत्कृष्ट-चिकित्सा-सेवाभ्यः तथा ‘स्वच्छ-हरित’ उपक्रमेषु योगदानाय एकोनविंशतिः सूर्य-सम्मानम् अपि समर्पितम्। तेन समारोहे बलिदानिन: प्रति श्रद्धाञ्जलिः अर्पिता, सैनिकानां कुटुम्बजनानां तथा वीर-नारीणां योगदानस्य प्रशंसा च कृता। स अवदत् यत् एषः समारोह: मध्य-कमानस्य तां गौरवशालिनीं परम्परां सुदृढयति, या उत्कृष्टतां सम्मान्य भारतीय सेना-मूल्यानि आदर्शांश्च अग्रे नयति।

उल्लेखनीयं यत् अस्मिन् वर्षे समारोहे समष्टितः षड्विंशतिः वीरता-तथा-विशिष्ट-सेवा-पदकानि प्रदत्तानि। तेषु त्रीणि युद्ध-सेवा-पदकानि, त्रयोदश सेना-पदकानि (वीरता), चत्वारि सेना-पदकानि (विशिष्ट-सेवा) तथा षट् विशिष्ट-सेवा-पदकानि सन्ति। अतिरिच्य अष्टाविंशतिः दलानि स्वस्य व्यावसायिक-कौशलस्य तथा निरन्तर-उत्कृष्ट-प्रदर्शनस्य कृते जीओसी-इन-सी, मध्य-कमान-दल-प्रशस्ति-पत्रैः सम्मानिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता