Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 24 फ़रवरीमासः (हि.स.)।
उत्तरप्रदेशस्य मीरजापुरजनपदे पीएम श्री कम्पोजिट विद्यालय कुशहां द्वितीय इत्यत्र मङ्गलवासरे वार्षिकोत्सवः शिक्षक अभिभावक संगोष्ठी च आयोजितौ। कार्यक्रमस्य शुभारम्भः मातुः सरस्वत्याः चित्रे दीपप्रज्वलनेन कृतः। विद्यालयपरिसरः सांस्कृतिकप्रस्तुतिभिः विज्ञानप्रदर्शनेन सम्मानसमारोहैः च दिवसभरं सजीवः आसीत्।
मुख्य अतिथिरूपेण अपना दल एस दलस्य छानबे विधानसभा क्षेत्रस्य विधायक रिंकी कोल उपस्थितवती बालकानां प्रतिभां प्रशंसितवती।
कार्यक्रमे अष्टमवर्गस्य छात्रा साक्षी देवी शास्त्रीयशैलीया दुर्गानृत्यं प्रस्तुत्य दर्शकानां प्रशंसां प्राप्तवती। अन्याः छात्राः राजस्थानी लोकनृत्यं प्रदर्श्य वातावरणं रमणीयं कृतवन्त्यः। विविधरङ्गकार्यक्रमाः उपस्थितान् अभिभावकान् अतिथीश्च मन्त्र मुग्धान् अकुर्वन्।
मुख्य अतिथिः विधायक रिंकी कोल बालकैः स्थापितां प्रदर्शनीम् अवलोकितवती। प्रदर्शने पवनचक्की वायुमण्डलस्य स्तराः चिकित्सालयस्य आदर्शरूपम् इसरो रॉकेट जलविद्युत् संयन्त्रं पुरातात्त्विकक्षेत्रसम्बद्धानि आकर्षकानि आदर्शरूपाणि च प्रदर्शितानि।
विधायिका रिंकी कोल बालकानां प्रतिभां प्रशंस्य तान् लक्ष्यनिर्धारणाय तत्प्राप्तये स्वप्नदर्शनाय च प्रेरितवती।
अस्मिन् अवसरे वर्षपर्यन्तं पंचनवतिप्रतिशत उपस्थिति युक्तः अष्टमवर्गीयः राज पाठक सप्तमवर्गीया अनन्या षष्ठवर्गीया गरिमा गौतम च पदकैः सम्मानिताः। अष्टमवर्गीयौ जयवीर निखिल च सर्वश्रेष्ठ छात्र पुरस्कारं प्राप्तवन्तौ।
प्रधानाध्यापिका अनीता मिश्रा आगन्तुकानां अभिभावकानां प्रति कृतज्ञतां व्यक्तवती। कार्यक्रमस्य संचालनं यूपीएस विजयपुर विद्यालयस्य प्रधानाध्यापकः अमरेश चन्द्र शुक्ल कृतवान्।
समारोहे बीडीओ रामपाल बीईओ राजेश श्रीवास्तव प्रधानाचार्य देवराज सिंह राजेन्द्र पाठक राजकुमार दुबे मुन्ना सिंह गहरवार नितिन तिवारी अनूप पांडेय उदय नारायण तिवारी मुकेश चन्द्र मनोरमा देवी ऊषा देवी कृतिका श्रीवास्तव राजेन्द्र यादव इत्यादयः बहवः अभिभावकाः गणमान्यजनाश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार