Enter your Email Address to subscribe to our newsletters

नगर विकास एवं ऊर्जा मंत्री ए. के. शर्मा च संगम सभागारे, लखनऊनगरे नगर विकास विभागस्य विभिन्न योजनानां समीक्षा कृता
पीएम आवास योजनां सर्वोच्च प्राथमिकतायै, समयबद्धतायै पारदर्शितायै च स्पष्टनिर्देशः
लखनऊ, 24 फरवरीमासः(हि.स.)।उत्तर प्रदेश राज्यस्य नगरविकास-ऊर्जामन्त्री ए के शर्मा मंगलवासरे लखनऊनगरस्थिते संगमसभागारे नगरविकासविभागस्य विविधमहत्त्वपूर्णयोजनानां विस्तृतसमीक्षां कृतवान्। सः स्पष्टनिर्देशान् दत्तवान् यत् सर्वाः योजनाः प्राधान्येन पारदर्शितया निश्चितकालसीमायां च पूर्णाः क्रियन्ताम्। शहरीविकासयोजनानां लाभः अन्तिमव्यक्तिपर्यन्तं प्राप्यते इति राज्यसरकारस्य अभिप्रायः अस्ति, अतः कस्यापि स्तरस्य लापरवाही शिथिलता वा न स्वीक्रियते इति तेन उक्तम्।
बैठके तेन विशेषतः प्रधानमंत्री आवास योजना शहरी इत्यस्य प्रगतेः सूक्ष्मसमीक्षा कृता। पात्रलाभार्थिभ्यः समये गृहनिर्माणसुविधा प्रदेयेत इति सर्वोच्चप्राथमिकता निर्दिष्टा। लंबितगृहाणां निर्माणकार्यं शीघ्रं सम्पाद्यताम्, येषां लाभार्थिनां किस्ताः अवशिष्टाः सन्ति तेषां भुगतानं त्वरितं सुनिश्चितं क्रियताम् इति आदेशः दत्तः। अपात्रव्यक्तीन् सूचीभ्यः अपाकृत्य वास्तविकपात्रान् संयोजयितुं, निर्माणकार्येषु गुणवत्तां रक्षितुं, नियमितभौतिकसत्यापनं च करणीयम् इति निर्देशाः अपि दत्ताः।
मन्त्री उक्तवान् यत् पीएमआवासयोजना दरिद्राणां सम्मानस्य सुरक्षायाः उत्तमजीवनस्य च आधारशिला अस्ति, अतः अस्यां काचिदपि शिथिलता न भवेत्। येषु जनपदेषु सत्यापनकार्यं अवशिष्टं तत्र जिलाधिकारिभिः सह संवादेन तस्य शीघ्रीकरणं क्रियताम् इति अपि सः अवदत्।
समीक्षाकाले तेन आकांक्षीनगरयोजना सीएमग्रिडयोजना कान्हागौशालायोजना तथा सीएमवैश्विकनगरोदययोजना इत्येतासां प्रगतिविवरणं ज्ञात्वा अवशिष्टकार्याणि शीघ्रं पूर्णानि क्रियन्ताम् इति निर्देशितम्। आकांक्षीनगरयोजनायां चयनितनगराणां आधारभूतसुविधाः सुदृढाः क्रियन्ताम्, सीएमग्रिडयोजनायां शहरीअधोसंरचना आधुनिकतन्त्रज्ञानेन संयोज्यताम्, कान्हागौशालायोजनायां गोवंशसंरक्षणं सुव्यवस्थितसञ्चालनं च सुनिश्चितं क्रियताम्, सीएमवैश्विकनगरोदययोजनया नगराणि वैश्विकमानकानुसारं विकसितानि भवन्तु इति तेन उक्तम्।
मन्त्री सर्वान् अधिकारिणः निर्देशितवान् यत् योजनानां नियमितमॉनिटरिंग् भवतु, जिला-नगरस्तरे उत्तरदायित्वं निश्चितं क्रियताम्, प्रगतिविवरणं समये प्रस्तुतं भवतु। विकासकार्येषु पारदर्शिता गुणवत्ता गतिः च एतेषां समन्वयेन एव राज्यस्य शहरीक्षेत्राणि सशक्तानि सुव्यवस्थितानि च भविष्यन्ति इति सः अवदत्।
उपवेशने प्रमुखसचिवः पीगुरुप्रसाद सचिवः अनुजझा रविन्द्रकुमारप्रथम विशेषसचिवः प्रवीणलक्ष्यकार सत्यप्रकाशपटेल महेन्द्रकुमारसिंह निदेशकः सूडा अपूर्वादुबे इत्यादयः वरिष्ठाधिकारिणः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार