लोकतांत्रिक व्यवस्थायां स्वसीमायां स्थित्वा भूमिकायाः निर्वहनं करणीयम् : सतीशमहाना
लखनऊ, 24 फरवरीमासः(हि.स.)। उत्तर प्रदेश विधानसभाध्यक्षः सतीश महाना अवदत् यत् गतचतुर्षु वर्षेषु प्रदेशस्य विधायिकां प्रति समाजे या नकारात्मकधारणा आसीत्, तस्याः उल्लेखनीयः सकारात्मकपरिवर्तनः अभवत्। लोकतान्त्रिकव्यवस्थायां सर्वे स्वसीमासु स्थित्वा स्व
पत्रकार वार्ता करते विधान सभा अध्यक्ष सतीश महाना


लखनऊ, 24 फरवरीमासः(हि.स.)। उत्तर प्रदेश विधानसभाध्यक्षः सतीश महाना अवदत् यत् गतचतुर्षु वर्षेषु प्रदेशस्य विधायिकां प्रति समाजे या नकारात्मकधारणा आसीत्, तस्याः उल्लेखनीयः सकारात्मकपरिवर्तनः अभवत्। लोकतान्त्रिकव्यवस्थायां सर्वे स्वसीमासु स्थित्वा स्वकर्तव्यस्य निर्वहनं कुर्वन्तु इति तेन उक्तम्।

वित्तीयप्रस्तावसत्रस्य सफलसमापनानन्तरं पत्रकारैः सह संवादे अध्यक्षमहानः सत्रस्य उपलब्धीः सदनस्य परिवर्तितस्वरूपं च विस्तरेण निरूपितवान्। पूर्वं जनमानसे विधानसभाकार्यवाहीविषये संशयः निराशा च आसीताम्, अधुना तदेव सदनं गम्भीरसार्थकपरिणामोन्मुखचर्चानां केन्द्रं जातम् इति सः अवदत्।

सः अवदत् यत् अष्टादशविधानसभा लोकतान्त्रिकमूल्यानि संरक्ष्य नवाचारं पारदर्शितां आधुनिकतन्त्रज्ञानं च स्वीकृत्य कार्यसंस्कृतौ व्यापकसुधारं कृतवती। उत्तरप्रदेशविधानसभा अधुना केवलं ऐतिहासिकभवनं न, अपितु उत्तरदायित्वअनुशासनजनाकाङ्क्षाणां सशक्तमञ्चं जातम्। एतेषां सुधारप्रयत्नानां फलतः अस्याः विधानसभायाः देशस्य अग्रणीविधानसभासु प्रतिष्ठितं स्थानं प्राप्तम्।

बजट्सत्रं बहुभिः दृष्टिभिः महत्त्वपूर्णं विचारोत्तेजकं परिणामोन्मुखं च आसीत्। वित्तीयवर्षस्य वित्तीयप्रस्तावविषये विस्तीर्णा गम्भीरा सारगर्भिता च चर्चा अभवत्। विभागानां अनुदानमाङ्गल्यः क्रमशः विवेचिताः, जनहितसम्बद्धाः अनेकाः विधेयकाः स्वीकृताः। प्रश्नकालेन शासनप्रशासनयोः उत्तरदायित्वं सुनिश्चितम्, शून्यकाले जनसरोकारविषयाः प्रभावेनोद्धृताः। एतत् दर्शयति यत् सदनं जनवाणीं सरकारपर्यन्तं प्रापयितुं समर्थमाध्यमम् अस्ति।

अध्यक्षः सन्तोषं व्यक्तवान् यत् सत्रस्य समग्रकाले पक्षविपक्षयोः संसदीयमर्यादानां पालनं कृतम्। मतभेदाः लोकतन्त्रस्य स्वाभाविकाङ्गम्, किन्तु संवादः संयमः शालीनता च तस्य आत्मा। अस्मिन् सत्रे स्वस्थबहसः तार्किकप्रतिपादनं सकारात्मकसहभागिता च दृष्टा।

पत्रकारितां लोकतन्त्रस्य चतुर्थस्तम्भं निर्दिश्य अध्यक्षेन माध्यमप्रतिनिधीनां विशेषकृतज्ञता व्यक्ता। उत्तरप्रदेशविधानसभायाः सकारात्मकप्रतिमां जनजनपर्यन्तं प्रापयितुं माध्यमानां महती भूमिका आसीत् इति सः अवदत्। अन्ते सर्वान् सदस्याञ् संसदीयकार्यमन्त्रीं नेतारं प्रतिपक्षस्य च धन्यवादं ज्ञाप्य सः उक्तवान् यत् भविष्ये अपि सदनस्य गरिमा पारदर्शिता उत्तरदायित्वं च सर्वोपरि स्थाप्य स्वस्थसंवादपरम्परा अधिकं सुदृढा क्रियते।

सः अवदत् यत् बजट्सत्रं नवमे फरवरी आरभ्य विंशतितमे फरवरी पर्यन्तं सञ्चालितम्। कुलं दश उपवेशनानि अभवन्। समग्रसमयः ७५ घण्टा ०८ मिनिट् आसीत्, तत्र ०२ घण्टा २३ मिनिट् स्थगनं जातम्, ७२ घण्टा ४५ मिनिट् स्थगनरहितकार्यवाही अभवत्।

नियम ३०० अन्तर्गतं १६ सूचनाः प्राप्ताः, तासु १३ स्वीकृताः ३ अग्राह्याः। नियम ३०१ अन्तर्गतं ६९४ सूचनाः प्राप्ताः, तासु ३५८ स्वीकृताः ३३६ अस्वीकृताः। सत्रे कुलं २४२७ प्रश्नाः प्राप्ताः, तेषु २३२२ प्रश्नाः ऑनलाइनमाध्यमेन प्राप्ताः। तेषु ४९० ताराङ्किताः, १४६६ अताराङ्किताः, १२० अल्पसूचिताः, ८३८ निजीसदस्यसम्बद्धाः प्रश्नाः आसन्।नियमस्य ५६इत्यस्य अन्तर्गतं ६२ सूचनाः प्राप्ताः, तासु १६ चर्चायै स्वीकृताः, ३ शासनद्वारा स्वीकृताः। याचिकासमित्याः समक्षं ९९९ याचिकाः प्राप्ताः, तासु ८२६ ग्राह्याः, ४८ अग्राह्याः, १२५ व्यपगताः।

हिन्दुस्थान समाचार