शिक्षायाः योजनानां नवाचाराणाम् अध्ययनाय दिल्लीम् आंध्र प्रदेशं च गमिष्यति विधायकानां दलम्
देहरादूनम्, 24 फ़रवरीमासः (हि.स.)। उच्चशिक्षा विद्यालयीशिक्षामन्त्री धनसिंहरावतस्य नेतृत्वे विधायकानां विभागीयाधिकारिणां च एकः प्रतिनिधिमण्डलः दिल्ली आन्ध्रप्रदेशयोः अध्ययनभ्रमणाय गमिष्यति। अस्य भ्रमणस्य उद्देश्यं शिक्षासम्बद्धानां सफलयोजनानां नवाच
मंत्री धन सिंह रावत।


देहरादूनम्, 24 फ़रवरीमासः (हि.स.)। उच्चशिक्षा विद्यालयीशिक्षामन्त्री धनसिंहरावतस्य नेतृत्वे विधायकानां विभागीयाधिकारिणां च एकः प्रतिनिधिमण्डलः दिल्ली आन्ध्रप्रदेशयोः अध्ययनभ्रमणाय गमिष्यति। अस्य भ्रमणस्य उद्देश्यं शिक्षासम्बद्धानां सफलयोजनानां नवाचाराणां च अध्ययनं कृत्वा तान् प्रदेशे कार्यान्वितुं भवति।

मन्त्री धनसिंहरावतः मंगलवासरे वक्तव्यं निर्गत्य उक्तवान् यत् विद्यालयीशिक्षाया अन्तर्गतं पञ्चसदस्यात्मकः दलः दिल्लीं गमिष्यति। अस्मिन् दले धर्मपुरविधायकः विनोदचमोली हरिद्वारग्रामीणविधायिका अनुपमारावत खानपुरविधायकः उमेशकुमार विद्यालयीशिक्षासचिवः रविनाथरमन तथा विद्यालयीशिक्षामहानिदेशिका दीप्तिसिंह समाविष्टाः सन्ति। अयं दलः दिल्ल्यां राजकीयविद्यालयानां गुणवत्तासुधारं विविधशैक्षणिकसंस्थानानां व्यवस्थाः च अध्ययनं करिष्यति।

सः अवदत् यत् उच्चशिक्षाक्षेत्रे अनुभवप्राप्तये पञ्चसदस्यात्मकः अन्यः दलः आन्ध्रप्रदेशं गमिष्यति। अस्मिन् दले टिहरीविधायकः किशोरउपाध्याय चकराताविधायकः प्रीतमसिंह यमुनोत्रीविधायकः संजयडोभाल उच्चशिक्षासचिवः रंजीतकुमारसिन्हा तथा आईटीडीए निदेशकः आलोकपाण्डेय समाविष्टाः सन्ति। अयं दलः आन्ध्रप्रदेशे उच्चशिक्षायां कृतान् नवाचारान् तकनीकीप्रशिक्षणकार्यक्रमान् विविधोच्चशैक्षणिकसंस्थानानि च अध्ययनं करिष्यति।

मन्त्री उक्तवान् यत् भ्रमणकाले दलः आन्ध्रप्रदेशराज्यकौशलविकासनिगम रतनटाटानवोन्मेषकेन्द्रम् अमरावती एनवीडियाआन्ध्रप्रदेशविश्वविद्यालयम् क्वाण्टमवैली इत्यादीनाम् अपि अध्ययनं करिष्यति। अस्मात् अध्ययनभ्रमणात् प्राप्तानुभवानां आधारेण प्रदेशे शिक्षायाः गुणवत्तासुधारः नवाचारविस्तारः छात्रछात्राणां कृते उत्तमावसरसुनिश्चितता च साधयितुं ठोसपदानि उपक्रमिष्यन्ते।

हिन्दुस्थान समाचार