Enter your Email Address to subscribe to our newsletters

मुरादाबादम्, 25 फरवरीमासः (हि.स.)।क्षेत्रीयसेवायोजनकार्यालय, राजकीयऔद्योगिकप्रशिक्षणसंस्थान, कौशलविकासमिशन तथा राजकीयपॉलिटेक्निक मुरादाबाद इत्येषां संयुक्ततत्त्वावधानेन बुधवासरे राजकीयपॉलिटेक्निके वृहद्रोजगारमेलस्य आयोजनं कृतम्। यस्मिन् साक्षात्कारमाध्यमेन १०९७ अभ्यर्थिनः चयनिताः अथवा शार्टलिस्ट् कृताः।
कार्यक्रमस्य शुभारम्भः सत्यपाल सिंह सैनी भाजपा प्रदेशोपाध्यक्षः विधानपरिषद्सदस्यः, डा. शैफाली सिंह जिला पंचायताध्यक्षः, तथा मृणाली अविनाश जोशी मुख्यविकासाधिकारी इत्येभिः दीपप्रज्वलनेन कृतः।
अस्मिन् रोजगारमेले प्रायः पञ्चाशत् कम्पन्यः तथा त्रिसहस्राधिकाः रोजगाराभिलाषिणः युवानः सहभागीभूताः। विभिन्नाभिः कम्पनीयैः साक्षात्कारमाध्यमेन १०९७ अभ्यर्थिनः चयनिताः शार्टलिस्ट् कृताः च।
कार्यक्रमं सम्बोधयन् विधानपरिषद्सदस्यः सत्यपालसिंहसैनी अवदत् यत् युवानां बेरोजगारी केवलं भारतस्य न, अपितु समग्रविश्वस्य प्रमुखा समस्या अस्ति। अस्माकं देशः विकासपथे अतीव शीघ्रं प्रगच्छति। अस्य प्रक्रियायाः तीव्रतावर्धनार्थं केन्द्रराज्यसरकारे उभे अपि प्रत्येकहस्ताय कार्यप्रदानाय संकल्पिते स्तः। अद्य राजकीयपॉलिटेक्निक मुरादाबादस्य प्राङ्गणे आयोजितः अयं वृहद्रोजगारमेला अस्य दिशि कृतः उत्तमः प्रयासः अस्ति।
जिलापञ्चायताध्यक्षः डा शैफाली चौहान उक्तवती यत् मुरादाबादस्य युवानां कृते आर्थिकरूपेण आत्मनिर्भरत्वप्राप्तये अयं सुवर्णावसरः अस्ति। युवानः आरम्भं कृत्वा अग्रे प्रगच्छेयुः, स्वकौशलं परिष्कृत्य कम्पनीयाः आवश्यकतारूपेण भवन्तु इति तया अनुरोधितम्।
कार्यक्रमे प्रमुखाः स्थानीयकम्पन्यः यथा पशुपति एकिलोन लिमिटेड, ईवा फाईवर, कॉसमॉस अस्पताल, जीनस पेपर मिल, बजीर चन्द्र प्रा.लि., सी एल गुप्ता, डिजाइन्को प्रा.लि., साई अस्पताल, एशियन विवेकानन्द अस्पताल, पुखराज हेल्थ केयर प्रा.लि. इत्यादयः आमन्त्रिताः।
तथैव मुरादाबादात् बहिः उत्तमरोजगारावसरप्रदानार्थं निजीक्षेत्रस्य बृहत्तमाः कम्पन्यः यथा रोलोन सेल्स, महिन्द्रा एण्ड महिन्द्रा लिमिटेड, टाटा मोटर्स लिमिटेड, महिन्द्रा स्वराज, श्रीराम पिस्टन एण्ड रिंग लिमिटेड, डाइकन ए सी इत्यादयः अपि सहभागित्वं कृतवन्तः।
हिन्दुस्थान समाचार