Enter your Email Address to subscribe to our newsletters

बांदा, 25 फ़रवरीमासः(हि.स.)।
उत्तरप्रदेशसर्वकारस्य मनोवाञ्छा अस्ति यत् जन्मतः अष्टादशवर्षपर्यन्तं जन्मजातदोषैः पीडितानां बालानां उत्तमोपचारः क्रियेत तथा तेभ्यः उत्तमजीवनं प्रदीयेत। अस्य हेतोः बांदानगरे राष्ट्रियबालस्वास्थ्यकार्यक्रमस्य माध्यमेन जन्मजातदोषपीडितबालानां निःशुल्कोपचारः क्रियते तथा तेषां नवजीवनप्रदानस्य कार्यं सम्पन्नं भवति।
स्वास्थ्यविभागेन आदौ जन्मजातदोषपीडितबालानां परीक्षणं क्रियते। ततः रोगस्य स्वरूपानुसारं तान् रानी दुर्गावती मेडिकल कॉलेज तथा अन्येषु महानगरस्थेषु सम्बद्धचिकित्सालयेषु भर्तीक्रियन्ते। अनन्तरं शल्यक्रियया बालानां उत्तमः निःशुल्कोपचारः विधीयते।
संवत्सरे २०२५ २६ मध्ये जन्मजातदोषपीडितानां ११६ बालानां परीक्षणं कृतम्। जन्मजातदोषेषु यथा मेरुदण्डवक्रता, पादकूल्हवक्रता, ओष्ठच्छेदः, तालुसंयोगदोषः, मोतियाबिन्दुः, नेत्रभ्रमः, अल्पविकसितमस्तिष्कम्, हृदयच्छिद्रं च इत्यादयः दोषाः समाविष्टाः सन्ति।
परीक्षणानन्तरं स्वास्थ्यविभागेन एते बालाः बांदानगरस्थे रानी दुर्गावती मेडिकल कॉलेज सहितं प्रयागराज कानपुर लखनऊ आगरा च स्थितेषु प्रमुखचिकित्सालयेषु चिकित्सामहाविद्यालयेषु च भर्तीक्रियन्ते। तेषु १०३ बालानां शल्यक्रिया सम्पन्ना। अपरं १३ बालानां शल्यक्रिया तथा उपचारप्रक्रिया प्रचलति।
मुख्यचिकित्साधिकारी डॉ विजेन्द्रकुमार बुधवासरे अवदत् यत् नगरीयग्रामीणक्षेत्रेषु स्वास्थ्यविभागस्य दलैः समये समये बालानां परीक्षणं क्रियते। तेन जन्मजातविकृतयः ज्ञायन्ते तथा तासां शीघ्रोपचारः क्रियते। सः अपि अवदत् यत् उप्रसरकारस्य उद्देश्यं दरिद्रबालानां उच्चचिकित्सासेवाप्रदानं भवति, येन जन्मजातदोषपीडितबालाः अपि सामान्यजीवनं जीवितुं शक्नुयुः।
---------------
हिन्दुस्थान समाचार