Enter your Email Address to subscribe to our newsletters


इटावानगरम्, २५ फरवरीमासः (हि.स.)। उत्तरप्रदेश–आयुर्विज्ञान–अनुसन्धान–संस्थानस्य पञ्चविंशतितम–स्थापना–दिवसावसरे उपमुख्यमन्त्री बृजेशपाठक: सैफई-चिकित्सा-विश्वविद्यालयम् आगतवान्। सः अवदत् यत् प्रदेशे सैफई–चिकित्सा-विश्वविद्यालय: उत्तमं कार्यं कुर्वन् अस्ति, अत्र च प्रतिदिनं पञ्चसहस्राधिक–रोगिणां ओपीडी–सेवा प्रवर्तते।
सः अवदत् यत् सैफई–चिकित्सा-विश्वविद्यालय–सम्बद्धस्य एकस्य ट्रॉमा–केन्द्रस्य निर्माणं करिष्यते। विशेषतया राजमार्गेषु जातासु मार्ग–दुर्घटनासु आहत–रोगिणां शीघ्र–चिकित्सायै राजमार्ग–समीपे सैफई–चिकित्सा-विश्वविद्यालय–सम्बद्धं ट्रॉमा–केन्द्रं निर्मास्यते; अस्य विषये प्रस्तावः अपि आमन्त्रितः अस्ति।
उपमुख्यमन्त्रिणः कथनम् आसीत् यत् उत्तरप्रदेशः अधुना “रुग्ण–प्रदेशः” नास्ति; अपि तु उत्तम–अवसंरचना–व्यवस्थया (इन्फ्रास्ट्रक्चर) तथा सुदृढ–न्याय–व्यवस्थया सह भारतदेशे निवेशस्य महत्त्वपूर्ण-केन्द्ररूपेण उद्भवति। पत्रकारैः सह वार्तालापे सः अवदत् यत् अविमुक्तेश्वरानंद-शंकराचार्य–सम्बद्धः विषयः न्यायालये विचाराधीनः अस्ति, अतः तस्मिन् विषये किमपि वक्तुं न युक्तम् इति।
हिन्दुस्थान समाचार / अंशु गुप्ता