मध्यप्रदेशः— उच्च–शिक्षा–विभागः अद्य अप्रेन्टिसशिप–प्रशिक्षण–संघेन सह सन्धि–ज्ञापनं (एम–ओ–यू) हस्ताक्षरं करिष्यति
भोपालनगरम्, २५ फरवरीमासः (हि.स.)। मध्यप्रदेशे विद्यार्थिभ्यः रोजगारोन्मुख–शिक्षाम् उपलब्धीकर्तुं उच्च-शिक्षा–विभागः अद्य महत्त्वपूर्णं प्रयत्नं करोति। बुधवासरे Board of Apprenticeship Training (पश्चिमी–क्षेत्रः, मुम्बई)–संस्थया सह उच्च–शिक्षा–विभाग
मध्य प्रदेश शासन (लोगो)


भोपालनगरम्, २५ फरवरीमासः (हि.स.)। मध्यप्रदेशे विद्यार्थिभ्यः रोजगारोन्मुख–शिक्षाम् उपलब्धीकर्तुं उच्च-शिक्षा–विभागः अद्य महत्त्वपूर्णं प्रयत्नं करोति। बुधवासरे Board of Apprenticeship Training (पश्चिमी–क्षेत्रः, मुम्बई)–संस्थया सह उच्च–शिक्षा–विभागेन सन्धि–ज्ञापनम् (एम्–ओ–यू) हस्ताक्षरितुं निश्चितम् अस्ति।

एषः कार्यक्रमः सरोजिनी-नायडू-शासकीय-कन्या स्वशासी- महाविद्यालय–मध्ये आयोजितः भविष्यति। कार्यक्रमावसरे महाविद्यालयानां विश्वविद्यालयानां च प्रतिनिधिभ्यः बोर्ड्–ऑफ्–अप्रेन्टिसशिप्–ट्रेनिंग्–अधिकारिभिः नेशनल्–अप्रेन्टिसशिप्–ट्रेनिंग्–स्कीम्–पटलस्य कार्य–प्रणाल्याः विस्तृता सूचना प्रदास्यते।

उच्च–शिक्षा–विभागस्य अपर–मुख्य–सचिवः अनुपम: राजन अवदत् यत्— अस्य सन्धि–ज्ञापनस्य मुख्योद्देश्यं महाविद्यालयेषु विश्वविद्यालयेषु च अध्ययनरतान् विद्यार्थिनः अप्रेन्टिसशिप–प्रणाल्या सह संयोजयितुम् अस्ति। अस्यान्तर्गतं २०२५–२६ शैक्षणिक–सत्रे Apprenticeship Embedded Degree/Diploma Programme (AEDB) सम्बद्ध–कर्तृ–संस्थाभ्यः आवश्यकं प्रशिक्षणं मार्गदर्शनं च प्रदास्यते।तेन विद्यार्थिभ्यः उद्योग–आधारितः व्यावहारिकः अनुभवः लभ्यते, येन तेषां रोजगार–क्षमता वर्धिष्यते। अकादमिक–शिक्षां कौशलैः उद्योगस्य आवश्यकताभिः च संयोज्य युवानः भविष्यस्य रोजगार–अवसराय अधिकं सक्षमाः सिद्धाः भविष्यन्ति।

एम–ओ–यू–हस्ताक्षर–कार्यक्रमे अपर–मुख्य–सचिवः अनुपम–राजनः, उच्च–शिक्षा–आयुक्तः प्रबल सिपाहा, सेवानिवृत्त–आईएएस–अधिकारी तथा Center of Research in Policies–संस्थायाः संस्थापक–सदस्यः राधेश्याम जुलानिया, बोर्ड्–ऑफ्–अप्रेन्टिसशिप्–प्रशिक्षण (पश्चिमी–क्षेत्र)–स्य प्रशिक्षण–निदेशकः डॉ.पी.एन.जुमले, तथा प्रदेशस्य ८५ महाविद्यालयानां एवं ८ विश्वविद्यालयानां प्राचार्याः नोडल–अधिकारिणश्च उपस्थिताः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता