रीवाजनपद: — टी.आर.एस.महाविद्यालये अद्य रोजगार–मेलापकस्य आयोजनम्
रीवानगरम्, २५ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य रीवाजनपदे युवा–संगम–कार्यक्रमस्य अन्तर्गतं अद्य बुधवासरे प्रातः ११ वादनात् अपराह्णे २ वादनपर्यन्तं टी.आर.एस.महाविद्यालये वृहद्-रोजगार–मेलापक: आयोज्यते। अस्मिन् मेलापके जनपदस्य बेरोजगाराणां युवक–युवतीना
रोजगार मेला (फाइल फोटो)


रीवानगरम्, २५ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य रीवाजनपदे युवा–संगम–कार्यक्रमस्य अन्तर्गतं अद्य बुधवासरे प्रातः ११ वादनात् अपराह्णे २ वादनपर्यन्तं टी.आर.एस.महाविद्यालये वृहद्-रोजगार–मेलापक: आयोज्यते। अस्मिन् मेलापके जनपदस्य बेरोजगाराणां युवक–युवतीनां कृते विविध–निर्माणिषु रोजगार–अवसराः प्रदास्यन्ते।

जनपदाधिकारी प्रतिभा पाल: अवदत् यत्— अस्मिन् रोजगार–मेलापके ४४ निर्माण्यः यनां चयनं करिष्यन्ति। सहभागी–निर्माणिषु आयु–सीमा तथा शैक्षणिक–योग्यता पृथक्–पृथक् निर्धारिता अस्ति। वेतनं भत्ताश्च ७,००० रूप्यकेभ्यः ३५,००० रूप्यकपर्यन्तम् निर्धारिताः सन्ति, ये विभिन्न–निर्माणिषु भिन्ना: भिन्नाः भविष्यन्ति। इच्छुकैः युवभिः स्व–सह मूल–अङ्कसूची, निवास–प्रमाणपत्रस्य छायाप्रति:, आधार–पत्रम् अथवा मतदाता–परिचयपत्रम्, रोजगार–कार्यालयस्य जीवित–पञ्जीकरणम्, तथा नवीने द्वे पासपोर्ट–आकार–छायाचित्रे अवश्यम् आनयितव्ये।

रोजगार–उप–सञ्चालकः अनिल: दुबे अवदत् यत्— अस्मिन् मेलापके ईगल हाईटेक इंडस्ट्रियल कॉर्पोरेट प्रा. लि., सिटी कार प्रा. लि., विन्ध्या टेलीलिंक लिमिटेड, अपोलो टायर्स लि., बजाज ऑटो लिमिटेड, बिरला केबल प्रा. लि., एमआरएफ लिमिटेड, भारतीय जीवन बीमा निगम, लेंसकार्ट इंडिया, याजाकी इंडिया, टाटा मोटर्स, फिएट इंडिया ऑटोमोबाइल्स, जेके टायर्स, जेबिल सर्किट इंडिया इत्यादिभि: सह अनेका: कम्पनीयः सहभागं करिष्यन्ति। एताभिः निर्माण्यः युवभ्यः विविध–क्षेत्रेषु रोजगार–अवसराः उपलब्धाः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता