माता-विन्ध्यवासिनी-विश्वविद्यालये २६ तमे दिने राज्यपालस्य प्रथमतया आगमनं भविष्यति
University
राज्यपाल आनंदी बेन पटेल


मीरजापुरनगरम्, २५ फरवरीमासः (हि.स.)। माता-विन्ध्यवासिनी-विश्वविद्यालये २६ फरवरीमासे आनंदीबेनपटेल-राज्यपालस्य प्रथमतया आगमनं भविष्यति। तस्याः कार्यक्रमः देवरीकला–मड़िहान–स्थिते निर्माणाधीने विश्वविद्यालय–परिसरे पूर्वाह्णे १०:५५ वादने प्रस्तावितः अस्ति।

निर्धारित–कार्यक्रमानुसारं ११:०५ वादनात् ११:३० वादनपर्यन्तं निर्माणाधीन–भवनानां निरीक्षणं कृत्वा कार्याणां प्रगतिसमीक्षां करिष्यति। ततः ११:३० वादनात् ११:३५ वादनपर्यन्तं परिसरान्तर्गतं पादपारोपण–कार्यक्रमः आयोजितो भविष्यति। ११:३५ वादनात् ११:४० वादनपर्यन्तं सा विश्वविद्यालय–निर्माणे नियोजित–श्रमिकाणां बालकेभ्यः उपहार–वितरणं करिष्यति। ११:४० वादनात् १२:०० वादनपर्यन्तं विश्वविद्यालय–अधिकारिभिः सह सभा प्रस्ताविता अस्ति। तदनन्तरं १२:०५ वादने तस्याः प्रस्थानं भविष्यति।

कुलपतिः प्रो.शोभा-गौड: अवदत् यत् राज्यपालस्य प्रथमतया आगमनेन विश्वविद्यालयस्य विकास–कार्येषु नव्या दिशा गतिश्च लप्स्येते, तथा च तस्याः मार्गदर्शनेन संस्थानं स्वलक्ष्य–साधने सफलं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता