वित्त समितेः उपवेशने मार्गः, पेयजलसेत्वोः निर्माण परियोजनाभ्यः लब्धा सहमतिः
-सार्वजनिकधनस्य मितव्ययितायां दृढनिर्देशः देहरादूनम्, 25 फरवरीमासः (हि.स.)। आनंद बर्धन अध्यक्षतायां बुधवासरे सचिवालयसभागारे वित्तसमितेः उपवेशनम्आसीत्। अस्मिन् उपवेशने मार्गपेयजलसेतुनिर्माणसम्बद्धानां विविधविकासपरियोजनानां कृते १२५७.९६ लक्षरूप्यकप
मुख्य सचिव आनंद बर्धन।


-सार्वजनिकधनस्य मितव्ययितायां दृढनिर्देशः

देहरादूनम्, 25 फरवरीमासः (हि.स.)।

आनंद बर्धन अध्यक्षतायां बुधवासरे सचिवालयसभागारे वित्तसमितेः उपवेशनम्आसीत्। अस्मिन् उपवेशने मार्गपेयजलसेतुनिर्माणसम्बद्धानां विविधविकासपरियोजनानां कृते १२५७.९६ लक्षरूप्यकपरिमितं यूटिलिटीशिफ्टिंग् तथा जलापूर्तिलाइनस्थानान्तरणकार्यं अनुमोदितम्।

उपवेशने जनहितसम्बद्धयोजनानां विषये विस्तृतचर्चा कृता। यूआईडीएफ निधेः अन्तर्गतं न्यूकैंटमार्गे दिलारामबाजारतः विजयकालोनीसेतुपर्यन्तं द्विलेन्मार्गस्य त्रिलेन्मार्गत्वेन उन्नयनार्थं १२५७.९६ लक्षरूप्यकपरिमितं यूटिलिटीशिफ्टिंग तथा जलापूर्तिलाइनस्थानान्तरणकार्यं स्वीकृतम्। अधिकारिणां कथनेन अस्य परियोजनायाः फलस्वरूपं यातायातव्यवस्थायाः सुधारः भविष्यति तथा क्षेत्रे वर्धमानदबावस्य न्यूनीकरणे साहाय्यं भविष्यति।

पिथौरागढ़ जनपदे घाटपम्पिंगपेयजलयोजनायाः अन्तर्गतं जर्जरपाइपलाइनस्य राइजिंगमेनस्य च प्रतिस्थापनपुनर्संरेखनार्थं १३३८.५३ लक्षरूप्यकपरिमिता योजना अपि अनुमोदिता। अनेन क्षेत्रे पेयजलापूर्तिः अधिकसुदृढा निर्बाधा च भविष्यति इति अपेक्षा अस्ति।

एवमेव मसूरीराज्यमार्गसंख्या १ इत्यस्य कि मी १८ स्थले सहसपुरे देहरादून जनपदे क्षतिग्रस्तैकलेनसेतोः स्थाने १२००.१७ लक्षरूप्यकव्ययेण ६० मीटरस्पैनयुक्तस्य द्विलेन्स्टीलबॉक्ससेतोः निर्माणं स्वीकृतम्। अनेन यातायातः अधिकसुरक्षितः सुलभः च भविष्यति।

उपवेशनकाले रामनगरबसटर्मिनलनिर्माणपरियोजनायाः पुनरीक्षितमूल्याङ्कने आधारकार्यस्य स्थलविकासस्य च अधिकव्ययविषये मुख्यसचिवेन अप्रसन्नता व्यक्ता। तेन सम्बन्धिताधिकारिणः निर्देशिताः यत् परियोजनायाः प्रारम्भिकविस्तारितव्ययः, स्थलचयनम्, नीविव्ययः, समग्रव्ययस्य व्यवहार्यता मितव्ययिता च परीक्ष्य समितिः गठिता भूत्वा शीघ्रं प्रतिवेदनं प्रस्तूयताम्।

मुख्यसचिवेन स्पष्टतया उक्तं यत् सार्वजनिकधनस्य मितव्ययिता सर्वोपरि अस्ति। विभागाः केवलं परामर्शदातृप्रस्तावेषु निर्भराः न स्युः, किन्तु स्वयमेव गहनपरीक्षणं कृत्वा प्रस्तावान् उच्चस्तरीयसमितौ प्रस्तुयुः। सर्वासु स्वीकृतपरियोजनासु शीघ्रं पारदर्शी समयबद्धं च कार्यं सुनिश्चितं करणीयम् इति अपि निर्देशः दत्तः।

हिन्दुस्थान समाचार