असम विधानसभानिर्वाचनम् : जालुकबारी सर्वतः सर्वतश्चर्चितासनं, हिमंतस्य अजेय जीतस्य पर्यायो निरंतरम्
गुवाहाटी, 26 फरवरीमासः(हि.स.)। असमराज्यस्य षोडशविधानसभानिर्वाचनस्य तिथिः समीपवर्ती भवति चेत् सम्पूर्णराज्ये निर्वाचनगतचेष्टाः तीव्राः अभवन्। परिसीमनानन्तरं प्रथमवारं सम्पन्ने अस्मिन् निर्वाचने १२६ विधानसभाक्षेत्राणां सीमासु व्यापकपरिवर्तनम् अभवत्
Assam Assembly Election 2026. असम विधानसभा चुनाव 2026


Assam CM Dr Himanta Biswa Sarma. मुख्यमंत्री डॉ हिमंत बिस्व सरमा


गुवाहाटी, 26 फरवरीमासः(हि.स.)।

असमराज्यस्य षोडशविधानसभानिर्वाचनस्य तिथिः समीपवर्ती भवति चेत् सम्पूर्णराज्ये निर्वाचनगतचेष्टाः तीव्राः अभवन्। परिसीमनानन्तरं प्रथमवारं सम्पन्ने अस्मिन् निर्वाचने १२६ विधानसभाक्षेत्राणां सीमासु व्यापकपरिवर्तनम् अभवत्। तेषु प्रमुखं चर्चितं च क्षेत्रं जालुकबारीविधानसभाक्षेत्रम् अस्ति, यत् पुनः राजनैतिकदृष्ट्या चर्चाकेन्द्रं जातम्।

कामरूपमेट्रोजनपदस्य अन्तर्गतं ३७ सङ्ख्याकं जालुकबारीविधानसभाक्षेत्रं परिसीमनानन्तरं नूतनस्वरूपेण प्रकटितम्। अस्मात् क्षेत्रात् वर्तमानमुख्यमन्त्री डॉ हिमन्तबिस्वसरमा पञ्चवारं विधायकत्वेन निर्वाचितः अस्ति। जालुकबारीक्षेत्रे ग्रामपञ्चायताः सह गुवाहाटीनगरनिगमस्य अनेके वार्डाः अपि अन्तर्भूताः सन्ति। तत्र वार्ड १ गाडीग्रामः जालुकबारी च, वार्ड २ पदुमबाडी गुवाहाटीविश्वविद्यालयः सुन्दरबाडी च, वार्ड ३ तः ९ पर्यन्तं पाण्डु मालीग्रामः गौशालायाः प्रमुखभागाः, वार्ड १० बोराग्रामस्य किञ्चित्भागः, वार्ड १३ फटाशिलस्य अंशः च सम्मिलिताः सन्ति। अपि च रानीविकासखण्डः उत्तरगुवाहाटीनगरक्षेत्रं च अस्मिन् विधानसभाक्षेत्रे संयोजितम्। पूर्वं वार्ड १३ पश्चिमगुवाहाटीविधानसभाक्षेत्रस्य अन्तर्गतं आसीत्।

आगामिनिर्वाचनाय प्रकाशितप्रारूपमतदातृसूच्याः अनुसारं जालुकबारीविधानसभाक्षेत्रे समग्राः २१०६२४ मतदातारः सन्ति। तेषु १००४०७ पुरुषमतदातारः, ११०२०९ महिलामतदातारः तथा ८ तृतीयलिङ्गमतदातारः सन्ति। अत्र महिलामतदातृणां संख्या पुरुषेभ्यः अधिका अस्ति। मतदानकेन्द्राणां संख्या अपि २२२ तः २४७ पर्यन्तं वर्धिता।

निर्वाचनइतिहासे दृष्टे जालुकबारीआसनस्य प्रतिनिधित्वं विभिन्नदलैः निर्दलीयैः अभ्यर्थिभिः च कृतम्। १९६७ वर्षे शैलेनमेधी निर्दलीयरूपेण विजयी अभवत्। १९७२ वर्षे कांग्रेसदलस्य रेवतीदासः, १९७८ वर्षे जनतापक्षस्य लक्ष्यधरचौधरी, १९८३ वर्षे कांग्रेसदलस्य शाहजलालअली विधायकाः अभवन्। १९८५ वर्षे भृगुकुमारफूकन निर्दलीयरूपेण तथा १९९१ १९९६ वर्षयोः असमगणपरिषद्पक्षस्य अभ्यर्थिरूपेण निर्वाचितः अभवत्।

२००१ वर्षात् आरभ्य जालुकबारीराजनीतिः डॉ हिमन्तबिस्वसरमायाः केन्द्रभूता अस्ति। तेन २००१ २००६ २०११ वर्षेषु कांग्रेसदलेन सह विजयः प्राप्तः। अनन्तरं भारतीयजनतापक्षे सम्मिलितः सन् २०१६ २०२१ वर्षयोः अपि अस्मिन् क्षेत्रे विजयम् अलभत। १९९६ वर्षे भृगुकुमारफूकनात् पराजयं प्राप्य २००१ वर्षे पुनरागत्य तस्य विजयपरम्परा निरन्तरं प्रवहति। जालुकबारीविधानसभाक्षेत्रे तस्य प्रभावः अद्यापि दृढः मन्यते।

हिन्दुस्थान समाचार