Enter your Email Address to subscribe to our newsletters

रायपुरम्, 26 फ़रवरीमासः (हि.स.)।
छत्तीसगढ़ विधानसभायाः बजट् सत्रस्य अद्य गुरुवासरे चतुर्थः दिवसः अस्ति। सदनस्य कार्यवाही प्रश्नकालतः आरभ्यते। अस्मिन् काले उपमुख्यमन्त्री विजय शर्मा मन्त्री श्याम बिहारी जायसवाल तथा मन्त्री गुरु खुशवंत विधायकैः पृष्टानां प्रश्नानां उत्तराणि दास्यन्ति।
अद्य सत्रे वित्त वर्ष २०२६ २७ बजटस्य चर्चायाः आरम्भः अपि भविष्यति। प्रश्नकाले पूर्वमुख्यमन्त्री तथा पाटन विधायक भूपेश बघेल राज्ये कस्टोडियल डेथ प्रकरणान् विषयीकृत्य प्रश्नान् उद्घाटयिष्यति। कारागृहेषु स्वीकृत क्षमतात् अधिक कैदिनां निवेशनस्य विषयः अपि सदने प्रस्तूयते।
बीजेपी विधायक भावना बोहरा मुख्यमंत्री ग्राम सड़क योजना अन्तर्गत अपूर्ण मार्गनिर्माण कार्याणां विषये सरकारात् जानकारीं याचिष्यति। विधायक विक्रम उसेंडी राज्ये प्रवर्त्यमान नक्सल पुनर्वास नीति विषये प्रश्नं करिष्यति। विधायक शकुंतला पोर्ते तकनीकी संस्थानेषु प्रशिक्षितानां युवानां रोजगारप्राप्तेः विषयम् उत्थापयिष्यति। विधायक धरमलाल कौशिक १०८ एम्बुलेंस सेवा निविदा प्रक्रिया सम्बन्धित विषयम् अपि प्रस्तोष्यति।
रायपुर राजधानी क्षेत्रे फॉर्महाउस स्थलेषु अवैध क्रियाकलापानां रेव पार्टी आयोजनस्य विषयः विधायक चातुरी नंद द्वारा उत्थाप्यते। रायपुर दक्षिण विधायक सुनील सोनी ध्यानाकर्षण प्रस्तावेन मदिरा दुकानानां आहता आवंटन स्थान चयन विषयक स्पष्ट मानदण्डानां अभावं विषयीकृत्य प्रश्नं करिष्यति।
प्रश्नकालानन्तरं मुख्यमन्त्री विष्णुदेव साय मन्त्री केदार कश्यप तथा वित्त मन्त्री ओपी चौधरी विविध पत्राणि सदन पटल उपरि स्थापयिष्यन्ति। ध्यानाकर्षण प्रस्तावाः अपि प्रस्तूयन्ते येन सुनील सोनी तथा अंबिका मरकाम जनहित विषयान् उत्थापयिष्यतः। सभापति विक्रम उसेंडी प्रतिवेदनं प्रस्तोष्यति। विधायक कुंवर सिंह निषाद तथा सुशांत शुक्ला याचिकाः प्रस्तोष्यतः। वित्त मन्त्री ओपी चौधरी विभिन्न समितीनां निर्वाचन प्रस्तावान् सदने स्थापयिष्यति। मन्त्री रामविचार नेताम अनुसूचित जाति अनुसूचित जनजाति तथा पिछड़ा वर्ग कल्याण समिति निर्वाचन सम्बन्धित प्रस्तावं प्रस्तोष्यति।
हिन्दुस्थान समाचार