मुख्यमन्त्रिणा ‘प्रवास–कार्यक्रमे’ सर्वकारस्य उपलब्धयः गणयिता:
नवदिल्ली, २६ फरवरीमासः (हि.स.)। दिल्ली–राज्यस्य मुख्यमन्त्री रेखा गुप्ता गुरुवासरे नवदिल्ली–लोकसभा–क्षेत्रे आयोजिते ‘प्रवास–कार्यक्रमे’ जनानां मध्ये गत्वा स्व–सर्वकारस्य एकवर्षीय–कार्याणां प्रतिवेदन–पत्रम् (रिपोर्ट–कार्ड्) प्रस्तुतवती। जनसभां सम्बो
नई दिल्ली लोकसभा क्षेत्र में आयोजित ‘प्रवास कार्यक्रम’ भाजपा नेताओं के साथ मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, २६ फरवरीमासः (हि.स.)। दिल्ली–राज्यस्य मुख्यमन्त्री रेखा गुप्ता गुरुवासरे नवदिल्ली–लोकसभा–क्षेत्रे आयोजिते ‘प्रवास–कार्यक्रमे’ जनानां मध्ये गत्वा स्व–सर्वकारस्य एकवर्षीय–कार्याणां प्रतिवेदन–पत्रम् (रिपोर्ट–कार्ड्) प्रस्तुतवती। जनसभां सम्बोधयन्ती सा अवदत् यत्— एतत् प्रतिवेदन–पत्रं केवलं संख्याङ्कानां सूची नास्ति, अपि तु जन–सेवा, जन–कल्याणं च ‘विकसित–दिल्ली’–लक्ष्ये सर्वकारस्य प्रतिबद्धतायाः प्रमाणम् अस्ति।

अस्मिन् अवसरे उत्तर–पश्चिम–दिल्ली–लोकसभा–क्षेत्रात् सांसदः योगेंद्र-चंदोलिया, नवदिल्ली–लोकसभा–क्षेत्रात् सांसदः बांसुरी स्वराज:, प्रदेश–भाजपा–अध्यक्षः वीरेंद्र: सचदेव:, मोती–नगर–विधानसभा–क्षेत्रात् विधायकः हरीश: खुराना, मालवीय–नगरात् विधायकः सतीश: उपाध्याय:, ग्रेटर–कैलाशात् विधायकः शिखा रॉय:, कस्तूरबा–नगरात् विधायकः नीरज: बसोया, राजेन्द्र–नगरात् विधायकः उमंगबजाज:, पूर्व–मन्त्री राजकुमार: आनंद:, पूर्व–विधायकः सुभाष: सचदेवा, जनपद–अध्यक्षः वीरेंद्रबब्बर: तथा रविंद्र: चौधरी उपस्थिताः आसन्।

मुख्यमन्त्रिणा उक्तं यत्— एतत् प्रतिवेदन–पत्रं केवलं विवरणानां सङ्ग्रहः न, अपि तु अस्माकं सर्वकारस्य जन–सेवा, जन–कल्याणं च ‘विकसित–दिल्लीं’ प्रति अटल–समर्पणस्य प्रतीकम्। विगत–२७–वर्षीय–दीर्घ–अन्तरालानन्तरं स्थापितेन भाजपापक्षस्य सर्वकारेण माननीय–प्रधानमन्त्रिणः नरेन्द्रमोदिन: ‘सबका साथ, सबका विकास’ इति मूल–मन्त्रं चरितार्थीकृत्य प्रत्येकां विधानसभां प्रति, प्रत्येकं जनं प्रति च मूलभूत–सौविध्यानां विस्तारः कृतः।

मुख्यमन्त्रिणा अवगतं कृतं यत्— नव–दिल्ली–लोकसभा–क्षेत्रे नव अटल–भोजनालया: स्थापिता:। आधारभूत–संरचनायाः सुदृढीकरणार्थं मोती–नगर–विधानसभा–क्षेत्रे प्रायः १३५–कोटि–रूप्यकाणां विकास–योजनानां अन्तर्गतं कीर्ति–नगरस्थिते पादचारी–सेतुः (फुट–ओवर–ब्रिज्) तथा नजफगढ–नालिकाया: उपरि सेतुः निर्मीयते— एतयोः कार्ययोः प्रगतिर्वर्तते। आर–के–पुरम–विधानसभा–क्षेत्रे अपि प्रायः १००–कोटि–रूप्यकाणां विकास–कार्येषु शीघ्र–गत्या कार्यं क्रियते। अपरं च, नव–विधानसभा–क्षेत्रेषु जल–पुरातन–पाइप–पङ्क्तिनां परिवर्तन–कार्यं युद्ध–स्तरेण प्रचलति। यातायात–व्यवस्थायाः तथा नगरीय–संरचनायाः सुदृढीकरणाय ग्रेटर–कैलाशे स्थितस्य सावित्री–सेतो: द्वितीय–चरणाय अनुमोदनं दत्तम्। अतिरिक्ततया एम–ब्लॉक–क्षेत्रे स्वचालित–बहु–स्तरीय–वाहन–स्थापन–केन्द्रस्य (ऑटोमेटेड–मल्टी–लेवल–पार्किङ्) आरम्भः कृतः।

पूर्व–सर्वकारान् प्रति कटाक्षं कुर्वन्ती मुख्यमन्त्री अवदत्— पूर्वं नवदिल्ली–लोकसभा–क्षेत्रं मूलभूत–सौविध्यानां प्राप्तये संघर्षं कुर्वत् आसीत्; अद्य तु ‘विकसित–दिल्ली’–लक्ष्ये अग्रणी–भूमिकां निर्वहति। सा आश्वासनं दत्तवती यत्— एष: सर्वकारः केवलं घोषणासु न, अपि तु समये कार्य–समापनं कृत्वा परिणामान् प्रदर्शयितुं समर्था अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता