Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 26 फरवरीमासः (हि.स.)।
असमराज्यस्य मुख्यमन्त्री डॉ हिमन्तबिस्वसरमा ३ मार्चदिनाङ्के काजीरङ्गाराष्ट्रियोद्यानमध्ये निर्मितस्य शासकीयऑर्किडोद्यानस्य उद्घाटनं करिष्यति। अस्मिन् अवसरे देशविदेशेभ्यः आगताः पर्यटकाः अपि उपस्थिताः भविष्यन्ति।
प्रायः षोडशकोटिरूप्यकाधिकव्ययेन निर्मितम् एतत् ऑर्किडोद्यानम् अन्ताराष्ट्रियमानदण्डानुसारं विकसितम् अस्ति। अस्य उद्यानस्य उद्देश्यः असमस्य समृद्धजैवविविधतां विशेषतः ऑर्किडप्रजातीनां प्रदर्शनम् अस्ति।
राज्यसर्वकारस्य अपेक्षा अस्ति यत् अनेन नूतनेन आकर्षणेन काजीरङ्गे पर्यटनविकासः भविष्यति तथा देशीयविदेशीयपर्यटकानां संख्यायाः वृद्धिः अपि भविष्यति।
हिन्दुस्थान समाचार