छात्राणां कृते ‘भावनात्मक–कल्याण तथा जीवन–प्रबन्धन’ विषयकः पाठ्यक्रमः आरभ्स्यते — कुलपतिः
कानपुरनगरम्, २६ फरवरीमासः (हि.स.)। अद्यतनस्य प्रतिस्पर्धात्मकस्य तथा अत्यधिक-बलयुक्तस्य शैक्षणिक–परिसरस्य मध्ये विद्यार्थिनां समग्र–विकासाय भावनात्मक–मानसिक–व्यवहारिक–दक्षतानां विकासः अत्यावश्यकः अस्ति। एतादृश्या एव भावनया विश्वविद्यालये प्रथमवर्षी
कार्यक्रम के दौरान लिया गया छायाचित्र


कानपुरनगरम्, २६ फरवरीमासः (हि.स.)। अद्यतनस्य प्रतिस्पर्धात्मकस्य तथा अत्यधिक-बलयुक्तस्य शैक्षणिक–परिसरस्य मध्ये विद्यार्थिनां समग्र–विकासाय भावनात्मक–मानसिक–व्यवहारिक–दक्षतानां विकासः अत्यावश्यकः अस्ति। एतादृश्या एव भावनया विश्वविद्यालये प्रथमवर्षीयाणां सर्वेषां छात्राणां कृते ‘भावनात्मक–कल्याण एवं जीवन–प्रबन्धन’ इति नाम्ना अर्हता–(क्वालिफाइंग्)–पाठ्यक्रमः आरभ्स्यते। एतत् गुरुवासरे छत्रपतिशाहूजी-महाराज-विश्वविद्यालयस्य कुलपतिः प्रो.विनयकुमारः पाठकः अवदत्।स: अवदत् यत्— विद्या–परिषदः सभायां छात्र–हितसम्बद्धेषु बहुषु महत्त्वपूर्णेषु प्रस्तावेषु अनुमोदनं कृतम्। अग्रिमसत्रात् सर्वेभ्यः विद्यार्थिभ्यः मानसिक–चिन्ता–निवारणम्, समय–प्रबन्धनम्, आत्म–जागरूकता तथा जीवन–कौशल–विकासं करोति इति एषः पाठ्यक्रमः अध्याप्यते, येन ते शैक्षणिके, वैयक्तिके तथा व्यावसायिके जीवने अधिकं उत्तमं प्रदर्शनं कर्तुं शक्नुवन्ति।

सभायां विश्वविद्यालय–परिसरं कृत्रिम–बुद्धि–सक्षम–परिसररूपेण विकसितुं निर्णयोऽपि कृतः। अस्यान्तर्गतं शिक्षण–शोध–प्रशासन–तथा-छात्र–सेव-क्षेत्रेषु कृत्रिम–बुद्धि–आधारित–प्रणालीनां उपयोगः भविष्यति। संकाय–सदस्यानां तथा विद्यार्थिनां कृते क्षमता–निर्माण–कार्यक्रमाः च सञ्चाल्यन्ते, आवश्यक-अवसंरचना च विकसिता भविष्यति।

नवीन–शिक्षा–नीतेः २०२० अन्तर्गतं सर्वेषां विद्यार्थिनां कृते आजीविकापरकाः अन्तर्जाल–पाठ्यक्रमाः आरभ्स्यन्ते। तेषु साइबर–सुरक्षा, सर्वेभ्यः कृत्रिम–बुद्धिः, वित्तीय–साक्षरता, भविष्यस्य कार्यक्षेत्रम् तथा क्वाण्टम्–कम्प्यूटिङ् इत्यादयः पाठ्यक्रमाः समाविष्टाः भविष्यन्ति। सहैव विभिन्नेषु विद्यालयेषु नूतन–पाठ्यक्रमाः आरभ्स्यन्ते, तथा सर्वेषु व्यावसायिक–पाठ्यक्रमेषु एक–सेमेस्टर–पर्यन्तम् इण्टर्नशिप्/औद्योगिक–प्रशिक्षणम् अनिवार्यं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता