कृषक–मेलापक: कृषकान् नव–प्रविधिभिः विपणेन च संयोजयति - कृषिमन्त्री
कानपुरनगरम्, २६ फरवरीमासः (हि.स.)। प्रदेशे कृषिं लाभकारीं कर्तुं कृषकान् प्रसंस्करणेन, मूल्य–संवर्धनेन तथा आधुनिक–प्रविधिभिः सह संयोजयितुं अत्यन्तं आवश्यकम् अस्ति। एतादृशाः कृषक–मेलापका: कृषकान् नव–प्रविधिभिः, नवाचारैः तथा विपणेन सह प्रत्यक्षं संयो
कार्यक्रम के दौरान लिया गया छायाचित्र


कानपुरनगरम्, २६ फरवरीमासः (हि.स.)। प्रदेशे कृषिं लाभकारीं कर्तुं कृषकान् प्रसंस्करणेन, मूल्य–संवर्धनेन तथा आधुनिक–प्रविधिभिः सह संयोजयितुं अत्यन्तं आवश्यकम् अस्ति। एतादृशाः कृषक–मेलापका: कृषकान् नव–प्रविधिभिः, नवाचारैः तथा विपणेन सह प्रत्यक्षं संयोजयितुं मञ्चं प्रददति। एताः वार्ताः गुरुवासरे प्रदेशस्य कृषिमन्त्री सूर्यप्रताप–शाही उक्तवखन्।

सः बांदा–कृषि–प्रौद्योगिकी-विश्वविद्यालयस्य परिसरस्थे आयोजितस्य उत्तर–क्षेत्रीय–कृषक–मेलापकस्य भ्रमणं कुर्वन् चन्द्रशेखर–आजाद–कृषि–प्रौद्योगिकी–विश्वविद्यालयस्य प्रसार–निदेशालयेन स्थापिते स्तम्भे प्रदर्शितानां कृषि–नवाचाराणां तथा प्रसंस्कृत–उत्पादानां प्रशंसां कृतवान्। त्रिदिवसीये अस्मिन् मेलापके विश्वविद्यालयेन विविध–फलानां तथा श्री-अन्नात् निर्मितानां प्रसंस्कृत–उत्पादानां प्रदर्शिनी कृता। अस्याः प्रदर्शिन्याः उद्देश्यं कृषकान् पारम्परिक–कृषेः अतिक्रम्य मूल्य–संवर्धनेन तथा प्रत्यक्ष–विपणनेन आय–वृद्ध्यर्थं प्रेरयितुम् आसीत्।

मेलापके कृषकेभ्यः उन्नत–कृषि–प्रविधिनां, प्रसंस्करणस्य, समूहस्य तथा विपणनस्य विषये विस्तीर्णा सूचना प्रदत्ता। प्रसार–निदेशालयस्य समूहेन कृषकान् अवगतं कारितं यत् कथं प्रसंस्कृत–उत्पादानां माध्यमेन विपणे उत्तमं मूल्यं प्राप्यते तथा लघु–स्तरे उद्यमितायाः प्रोत्साहनं कर्तुं शक्यते।

चन्द्रशेखर–आजाद–कृषि–प्रौद्योगिकी–विश्वविद्यालयस्य कुलपतेः के.विजयेंद्र–पांडियन-महोदयस्य निर्देशानुसारं आयोजिते अस्यां प्रदर्शिन्यां प्रसार–निदेशकः डॉ.वी.के.त्रिपाठीमहोदयः नेतृत्वं कृत्वा विश्वविद्यालयस्य दलं कृषकान् नवोन्मेषी–प्रविधिनां विषये विस्तृतां सूचनां अयच्छत्।

हिन्दुस्थान समाचार / अंशु गुप्ता