भारतीय सेना जोधपुरे 25 देशानां रक्षा पत्रकाराणाम् अकरोत् स्वागतम्
जयपुरम्, 26 फ़रवरीमासः (हि.स.)। भारतीयसेनायाः दक्षिणीकमानस्य कोणार्ककोरदलेन गुरुवासरे जोधपुरनगरे पञ्चविंशतिदेशेभ्यः आगतानां अन्तरराष्ट्रीयरक्षापत्रकाराणां प्रतिनिधिमण्डलस्य स्वागतं कृतम्। अस्मिन् अवसरे पत्रकारेभ्यः भारतीयसेनायाः आधुनिकीकरणस्य रणन
रक्षा पत्रकारों का प्रतिनिधिमंडल


जयपुरम्, 26 फ़रवरीमासः (हि.स.)।

भारतीयसेनायाः दक्षिणीकमानस्य कोणार्ककोरदलेन गुरुवासरे जोधपुरनगरे पञ्चविंशतिदेशेभ्यः आगतानां अन्तरराष्ट्रीयरक्षापत्रकाराणां प्रतिनिधिमण्डलस्य स्वागतं कृतम्। अस्मिन् अवसरे पत्रकारेभ्यः भारतीयसेनायाः आधुनिकीकरणस्य रणनीतिकपरिवर्तनस्य रक्षाक्षेत्रे आत्मनिर्भरतात्प्राप्तये क्रियमाणानां उपायानां विस्तृता सूचना प्रदत्ता।

कार्यक्रमे सेनायाः परिवर्तनयात्राअभियानस्य गतदशके सम्पन्नानां संरचनात्मकसुधाराणां च विषये प्रकाशः निक्षिप्तः। अधिकारिभिः उक्तं यत् भारतीयसेना अधुना स्वदेशीरक्षानिर्माणं प्रौद्योगिकीनवोन्मेषं च प्राथमिकतया गृह्णाति, येन देशः रक्षाउत्पादनक्षेत्रे आत्मनिर्भरः भवेत्। पत्रकारेभ्यः स्वदेशीशस्त्रप्रणाल्यः अत्याधुनिकसैन्यमञ्चाः नवपीढीयन्त्राणि च प्रदर्शितानि। एतासां प्रणालीनां समावेशेन विशेषतः मरुस्थलीयसीमान्तप्रदेशेषु सेनायाः संचालनक्षमतायां उल्लेखनीया वृद्धिः अभवत् इति निर्दिष्टम्।

जोधपुरस्य रणनीतिकमहत्त्वयुक्तप्रदेशे नियुक्तानां सैन्यएककानां सज्जता आधुनिकसञ्चारप्रणाल्यः निगराणीतन्त्राणि च अपि प्रदर्शितानि। विस्तृतसूचनायां उक्तं यत् स्वदेशीप्रौद्योगिकीनां सहजसमावेशेन भारतीयसेना सशक्ततां प्रौद्योगिकीसम्पन्नतां च प्राप्तवती।

कार्यक्रमे सैन्यनागरिकसामञ्जस्यप्रयत्नानां माध्यमेन राष्ट्रनिर्माणे सेनायाः भूमिका अपि रेखाङ्किता। अस्मिन् सीमावर्तीप्रदेशेषु मार्गसेतुनिर्माणं सामरिकअवसंरचनाविकासः स्थानीययुवकानां कौशलविकासकार्यक्रमाः समुदायेषु सततसंपर्कयोजनाश्च अन्तर्भूताः। एताभिः पहलाभिः पश्चिमराजस्थानस्य दूरस्थसीमान्तप्रदेशेषु संपर्कवृद्धिः अभवत्, स्थानीयअर्थव्यवस्था सुदृढीभूता, सुरक्षाअवसंरचना च बलीकृता। साथैव सेनायाः संचालनतत्परता उच्चस्तरे धारिता।

अन्ताराष्ट्रियमाध्यमप्रतिनिधयः भारतीयसेनायाः व्यावसायिकता संचालनश्रेष्ठता वैश्विकरक्षासहकार्ये प्रतिबद्धता च प्रशंसितवन्तः। इंंभ्रमणं भारतस्य रक्षासज्जतायाः राष्ट्रियविकासस्य एकीकृतदृष्टिकोणस्य प्रदर्शनाय महत्त्वपूर्णः इति मन्यते।

जनसम्पर्काधिकारी रक्षाविभागस्य लेफ्टिनेंटकर्नलनिखिलधवनस्य अनुसारं एषा पहलः सुरक्षितस्य आत्मनिर्भरस्य समृद्धस्य विकसितराष्ट्रस्य भारतस्य दृष्टेः साकारकरणाय दृढसन्देशः अस्ति।

---------------

हिन्दुस्थान समाचार