केंद्रीय विश्वविद्यालयो विकसित भारत युवा संसदस्य अथ च युवसंपृक्तताकार्यक्रमस्य च अकरोद्आयोजनम्
धर्मशाला, 26 फ़रवरी (हि.स.)।केंद्रीयविश्वविद्यालय हिमाचलप्रदेशस्य धर्मशालापरिसरे वीरवासरे विकसितभारत युवा संसद तथा युवा कनेक्ट २०२६ कार्यक्रमस्य जिलास्तरीय आयोजनं सम्पन्नम्। कार्यक्रमे मुख्यातिथिरूपेण प्रदीपकुमारः कुलपतिः शिक्षाविद् केंद्रीयविश्ववि
कार्यक्रम के दौरान जिला लोक संपर्क अधिकारी को सम्मानित करते हुए।


धर्मशाला, 26 फ़रवरी (हि.स.)।केंद्रीयविश्वविद्यालय हिमाचलप्रदेशस्य धर्मशालापरिसरे वीरवासरे विकसितभारत युवा संसद तथा युवा कनेक्ट २०२६ कार्यक्रमस्य जिलास्तरीय आयोजनं सम्पन्नम्। कार्यक्रमे मुख्यातिथिरूपेण प्रदीपकुमारः कुलपतिः शिक्षाविद् केंद्रीयविश्वविद्यालयस्य तथा जिला लोकसंपर्क अधिकारी विनय शर्मा उपस्थितौ आस्ताम्।

कार्यक्रमे मुख्यअतिथि प्रदीप कुमार तथा विनय शर्मा अन्यैः विशिष्टअतिथिभिः सह युवान् सम्बोध्य अवदन् यत् विकसितभारतस्य निर्माणे युवानां सक्रियभागीदारी अत्यन्तावश्यकी अस्ति। ते युवान् सकारात्मकचिन्तनाय नवाचाराय सामाजिकउत्तरदायित्वबोधाय नेतृत्वक्षमताविकासाय च प्रेरितवन्तः।

युवा संसद कार्यक्रमे प्रतिभागिनः शिक्षाविषये रोजगारविषये डिजिटल इंडिया महिला सशक्तीकरण पर्यावरणसंरक्षण नशामुक्ति आत्मनिर्भर भारत इत्यादिषु महत्त्वपूर्णविषयेषु स्वविचारान् प्रभावपूर्णतया प्रस्तुतवन्तः।

निर्णायकमण्डलेन प्रतिभागिनां तर्कशक्ति प्रस्तुतीकरणशैली विषयबोधश्च आधारेण मूल्यांकनं कृतम्। विकसितभारत युवा संसद कार्यक्रमस्य जिलास्तरीय चरणे पंचम गुप्तः प्रथमस्थानं वैष्णवी डोगरा द्वितीयस्थानं अंकुश शर्मा तृतीयस्थानं च प्राप्तवन्तः। उत्कृष्टप्रदर्शनं कृतवन्तः पञ्च प्रतिभागिनः प्रमाणपत्रैः पुरस्कारैः च सम्मानिताः।

विजेतारः युवानः षष्ठ मार्च दिनाङ्के राज्यपालस्य समक्षं स्ववक्तव्यं प्रस्तुत्य जिला कांगडा इत्यस्य प्रतिनिधित्वं करिष्यन्ति।

कार्यक्रमविषये जानकारीं दत्त्वा मेरा युवा भारत कार्यालयस्य उपनिदेशक ध्रुव डोगरा अवदत् यत् विकसितभारत युवा संसदस्य उद्देश्यं युवेषु नेतृत्वकौशलम् आत्मविश्वासः राष्ट्रं प्रति दायित्ववादिभावश्च विकसितुं अस्ति।

हिन्दुस्थान समाचार