Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 26 फरवरीमासः (हि.स.)।
उपराज्यपालः मनोज सिन्हा गुरौ दिने कश्मीर विश्वविद्यालय स्नातकच्छात्रान् स्वीयमहत्त्वाकाङ्क्षाः राष्ट्रियविकासेन सह संयोजयितुं प्रार्थितवान्। सः उक्तवान् यत् शिक्षा उत्तरदायिनः नागरिकान् निर्मातुं अर्हति ये चरित्रेण क्षमतया प्रतिबद्धतया च युक्ताः स्युः।
एकविंशतितमे दीक्षान्तसमारोहे सम्बोधयन् सिन्हा अवदत् यत् एषः अवसरः केवलम् उपाधिप्रदानस्य न, अपितु पीढीनां परिवर्तनस्य आधुनिकशिक्षायां समाजविश्वासस्य सुदृढीकरणस्य च प्रतीकः अस्ति। तेन पदकविजेतृभ्यः विद्वद्भ्यः आचार्येभ्यः अभिभावकेभ्यश्च शैक्षिकोत्कृष्टतायां तेषां सामूहिकयोगदानाय अभिनन्दनं प्रदत्तम्।
महिलाछात्राणां उल्लेखनीयप्रदर्शनं निर्दिशन् उपराज्यपालः अवदत् यत् द्विशत्चत्वारिंशदधिकद्विशतं सुवर्णपदकेषु षडशीत्यधिकशतं तथा चतुर्षष्ट्यधिकशतं पीएचडी उपाधिषु अष्टोत्तरशतं बालिकाभिः अर्जितम्, एतत् परिवर्तमानसामाजिकवास्तविकतायाः शक्तिशालीप्रतिबिम्बम् इति सः उक्तवान्। सः अवदत् यत् यदा समानावसराः प्रदीयन्ते तदा महिलाः न केवलं उत्कृष्टतां प्राप्नुवन्ति, अपितु नेतृत्वं कृत्वा सर्वेषु विषयेषु नूतनमानकानि स्थापयन्ति।
उदीयमानवैश्विकपरिदृश्यं निर्दिशन् सः अवदत् यत् तीव्रप्रौद्योगिकीप्रगति कृत्रिमबुद्धिमत्ता डिजिटलपरिवर्तनं च उच्चशिक्षां व्यवसायमार्गान् च नूतनरूपेण परिवर्तयन्ति। अप्रत्याशितविश्वे प्रासङ्गिकत्वं रक्षितुं अनुकूलनशीलता अन्तर्विषयशिक्षा निरन्तरकौशलविकासश्च अत्यावश्यकाः इति तेन बलं दत्तम्।
अध्ययनं केवलं उपाध्या सह समाप्तुं न शक्यते, तत् आजीवनप्रयत्नरूपेण भवितव्यम् इति उक्त्वा सः छात्रान् नवोन्मेषं स्वीकरोतु परिवर्तनं च आव्हानरूपेण न, अपितु अवसररूपेण पश्यन्तु इति प्रार्थितवान्। उपराज्यपालः उदीयमानप्रौद्योगिकीनां नैतिकप्रयोगे अपि बलं दत्त्वा अवदत् यत् कृत्रिमबुद्धिमत्ता अनुसन्धाननवोन्मेषयोः वेगं दातुं शक्नोति, किन्तु सा नैतिकउत्तरदायित्वेन मानवबुद्ध्या च निर्देशिता भवेत्।
सिन्हा स्नातकान् समाजे सार्थकयोगदानं कर्तुं आह्वयन् अवदत् यत् शिक्षा परिवर्तनस्य शक्तिशालीसाधनम् अस्ति तथा राष्ट्रनिर्माणदिशि महद्दायित्वं वहति। युवान् केवलं व्यक्तिगतसफलतायै न, अपितु सामूहिकप्रगत्यै उत्कृष्टतां साधयितुं प्रोत्साहितवान्। राष्ट्रियप्रतिबद्धतायाः स्वसन्देशं पुनरुच्चारयन् सः उक्तवान् यत् देशेन महती आशया तेषां शिक्षायां निवेशः कृतः अस्ति। यदा यूयं स्वज्ञानकौशलानि राष्ट्राय समर्पयथ, तदा स्वयम् अपि राष्ट्रं च सुदृढीकुर्वथ इति सः उक्तवान्। अन्ते सः विश्वासं व्यक्तवान् यत् जम्मूकश्मीरप्रदेशस्य युवानः भारतस्य भविष्यनिर्माणे महत्त्वपूर्णां भूमिकां निर्वक्ष्यन्ति।
---------------
हिन्दुस्थान समाचार