Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २६ फरवरीमासः (हि.स.)। मध्यप्रदेश-पर्यटन-संघेन प्रदेशस्य पर्यटन-स्थलेषु महिलाभ्यः सुरक्षितं, संवेदनशीलं च अनुकूलं वातावरणं सुनिश्चेतुं महत्त्वपूर्ण: प्रयत्न: आरब्ध: अस्ति। अस्य एव क्रमस्य अन्तर्गतं “महिलानां कृते सुरक्षित-पर्यटन-स्थल-परियोजना” इत्यस्य अधीनं पर्यटन-स्थलेषु महिला-सुरक्षा—आरक्षक-विभागस्य भूमिका एवं रणनीतिः इति विषयं केन्द्रीकृत्य अद्य गुरुवासरात् त्रिदिवसीय-उन्मुखीकरण-कार्यशाला आयोज्यते।
मध्यप्रदेश-पर्यटन-संघस्य प्रबन्ध-संचालकः डॉ.इलैया-राजा टी. अवदत् यत्— भोपाल-नगरे स्थिते होटल-पलाश-रेसिडेन्सी इत्यत्र आयोजितायाः अस्याः कार्यशालायाः प्रमुखोद्देश्यं पर्यटन-विभागस्य आरक्षक-विभागेन सह उत्तम-समन्वयं स्थापयित्वा पर्यटन-स्थलेषु महिला-पर्यटकानां सुरक्षा, सहजता, विश्वासं च सुदृढीकरणं कर्तुम् अस्ति। अस्मिन् कार्यक्रमे गृह-विभागः, आरक्षक-विभागः, महिला-एवं-बाल-विकास-विभागः, पर्यटन-बोर्डः, पर्यटन-निगमः तथा विविध-विशेषज्ञाः सक्रियतया सहभागं करिष्यन्ति।
सः अवदत् यत्— प्रदेशे पर्यटन-स्थलानि महिलाभ्यः सुरक्षितानि कर्तुं पर्यटन-संघेन निरन्तरं प्रयासाः क्रियमाणाः सन्ति। तस्मात् महिला-पर्यटकानां सुरक्षायै प्राधान्यं दत्त्वा पर्यटन-स्थलेषु अधोसंरचना-विकासः, आरक्षक-समन्वयः, सामुदायिक-सहभागिता तथा संवेदनशीलता-वृद्धिः इत्यादिनां हेतु एतादृश्य: कार्यशालाः भविष्येऽपि आयोज्यन्ते। एतेन मध्यप्रदेशः सुरक्षित-पर्यटन-गन्तव्य-रूपेण स्वस्य परिचयं अधिकं सुदृढं करिष्यति।
प्रबन्ध-संचालकः अवदत् यत्— कार्यशालायाः प्रथम-दिने पर्यटन-विभागेन समुदाय-आधारित-पर्यटनं तथा महिला-सुरक्षार्थं क्रियमाणानां प्रयासानां विषये प्रस्तुतिं प्रदास्यते, अपि च आरक्षक-विभागेन महिला-सुरक्षासम्बद्धाः प्रावधानाः एवं रणनीतयः चर्च्यन्ते। समूह-कार्याणां माध्यमेन धार्मिक-पर्यटनं, ग्रामीण-पर्यटनं, पुरातात्त्विक-स्थलानि, वन-क्षेत्राणि, विशेष-आयोजनानि, साहसिक-पर्यटनं, आतिथ्य-क्षेत्रं तथा साइबर-छलना इत्यादिषु विषयेषु मन्थनं भविष्यति।
कार्यशालायाः द्वितीय-दिने (२७ फरवरीमासे) समूह-कार्येभ्यः प्राप्तानां निष्कर्षाणां आधारेण एक्शन-प्लान तथा नीति-प्रवर्तन (पॉलिसी-एड्वोकेसी) विषये चर्चा भविष्यति। तदनन्तरं खारी, भोजपुरम्, भीमबेटिका, वन-विहारः तथा भोपालस्य समीपवर्तिनि पर्यटन-स्थलेषु क्षेत्र-भ्रमणं कृत्वा भूमिस्तरे सुरक्षा-सुविधानां मूल्याङ्कनं करिष्यते। तृतीय-दिने (२८ फरवरीमासे) विविध-राज्यानां देशानां च केस-स्टडी, विशेषज्ञ-व्याख्यानानि, यूएन-विमेन-प्रस्तुति:, लैङ्गिक-संवेदनशीलता, सामुदायिक-आरक्षक-व्यवस्था तथा सामाजिक-माध्यमानां भूमिका इत्यादिषु विषयेषु विस्तृतः संवादः भविष्यति। कार्यशालायाः समापनं स्मृति-चिह्न-वितरणेन सह करिष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता