मध्यप्रदेशस्य मुख्यमन्त्री अद्य सागर-जनपदस्य प्रवासे, गढाकोटा-नगरे रहस-मेलापके सहभागं करिष्यति
- मुख्यमंत्री सामाजिकसुरक्षापेंशन-हितग्राहिणां धनागारेषु अंतरितं करिष्यति। भोपालनगरम्, २६ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य गुरुवासरे सागर-जनपदस्य प्रवासे स्थास्यति। स: रहली-तहसीलस्य गढ़ाकोटा इत्यत्र आयोज्यमाने रहस-म
मुख्‍यमंत्री डॉ मोहन यादव


- मुख्यमंत्री सामाजिकसुरक्षापेंशन-हितग्राहिणां धनागारेषु अंतरितं करिष्यति।

भोपालनगरम्, २६ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य गुरुवासरे सागर-जनपदस्य प्रवासे स्थास्यति। स: रहली-तहसीलस्य गढ़ाकोटा इत्यत्र आयोज्यमाने रहस-मेलापके शुभारंभ-समारोहे सम्मिलित: भविष्यति।

जनसम्पर्क-अधिकारी अनिल- वशिष्ठ: अवदत् यत्— गढाकोटा-रहस-लोकोत्सव: २०२६ अन्तर्गतं अद्य रहस-मेलापक-प्रांगणे बुंदेलखण्ड-स्तरीय-कृषक-तथा-ग्रामीण-नगर-आजीविका-समूहानां सम्मेलनं आयोज्यते। अस्मिन् सत्रे मुख्यमन्त्री डॉ.यादवः मुख्यातिथित्वेन उपस्थाय कृषकाणां तथा आजीविकासमूहान् सम्बोधयिष्यति।

अस्मिन् अवसरे मुख्यमन्त्री सामाजिक-सुरक्षा-पेंशन-योजनायाः जनवरी-मासस्य पेड इन फरवरीमास: २०२६ इत्यस्य वित्तराशिं हितग्राहिनां धनागारेषु अंतरितं करिष्यति। जनसम्पर्क-अधिकारिणां विवरणानुसारं पेंशन-योजनायाम् प्रति हितग्राही प्रतिमासं ६०० रूप्यकाणि आर्थिक-सहाय्याय प्रदत्तानि सन्ति। मुख्यमन्त्री डॉ.यादवः ३२ लक्षात् अधिकं हितग्राहिनां धनागारेषु १९६.७२ कोटिरूप्यकाणां वितरणं सिंगल-क्लिक् माध्यमेन करिष्यति।

निर्धारित-कार्यक्रमानुसारः, मुख्यमन्त्री डॉ.मोहन-यादवः जबलपुर-डुमना वायुसंस्थात्रात् ३.३० वादनात् हेलीकॉप्टरविमानमार्गे प्रस्थानं कृत्वा ४.०५ वादनात् सागर-जनपदस्य रहली-तहसील गढ़ाकोटा-हेलीसंस्थात्रम् उपगमिष्यति। तत्र स्थानीय-कार्यक्रमे सम्मिलित: भविष्यति। कार्यक्रमोपरान्तं मुख्यमन्त्री सायं ५.१० वादनात् गढाकोटा-हेलीसंस्थात्रात् हेलीकॉप्टरमार्गे डुमना-विमानपत्तनं, जबलपुरं प्रति गमिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता