अखिल–भारतीय–नागरिक–सेवा–मल्लयुद्ध–चैम्पियनशिप-इत्यस्य शुभारम्भः
मण्डीनगरम्, २६ फरवरीमासः (हि.स.)। आयुष्, युवा–सेवाः तथा क्रीडा, विधि–विधेयक–परामर्श-मन्त्री यादविंद्र गोमा अद्य अत्र राजकीय वल्लभ-डिग्री-महाविद्यालय–मण्डीनगरे आयोजितस्य त्रिदिवसीयस्य अखिल–भारतीय–नागरिक–सेवा–मल्लयुद्ध–चैम्पियनशिप् २०२५–२६–इत्यस्य वि
अखिल भारतीय सिविल सेवाएं कुश्ती चैंपियनशिप-2025-26 के शुभारंभ अवसर पर यादविंद्र गोमा।


मण्डीनगरम्, २६ फरवरीमासः (हि.स.)। आयुष्, युवा–सेवाः तथा क्रीडा, विधि–विधेयक–परामर्श-मन्त्री यादविंद्र गोमा अद्य अत्र राजकीय वल्लभ-डिग्री-महाविद्यालय–मण्डीनगरे आयोजितस्य त्रिदिवसीयस्य अखिल–भारतीय–नागरिक–सेवा–मल्लयुद्ध–चैम्पियनशिप् २०२५–२६–इत्यस्य विधिवत् शुभारम्भं कृतवान्। अस्यां प्रतियोगितायां देशस्य विविधेभ्यः प्रदेशेभ्यः आगताः पञ्चविंशतिः पक्षा: तथा प्रायः पञ्चशतं क्रीडकाः सहभागं कुर्वन्ति। एतेषु द्विशतं महिला–क्रीडकाः, प्रायः त्रिशतं पुरुष–क्रीडकाः च सन्ति।

अस्मिन् अवसरे यादविंद्र–गोमा अवदत् यत् प्रदेश–सर्वकारः क्रीडानां प्रोत्साहनाय दृढ–पदानि गृह्णाति। सुखविंद्रसिंह: सुक्खु–मुख्यमन्त्रिणः नेतृत्वे प्रदेशे क्रीडा–अधोसंरचनायाः सुदृढीकरणे तथा क्रीडकानां प्रोत्साहने विशेषं ध्यानं दत्तम् अस्ति। वर्तमान–प्रदेश–सर्वकारेण अन्ताराष्ट्रिय–स्तरे पदक–विजेतॄणां क्रीडकानां सम्मान–राशिः बहुगुणा वर्धिता अस्ति।

यादविंद्र–गोमा अवदत् यत् राज्य–सर्वकारेण अद्यतनकाले शिमला–नगरे अन्ताराष्ट्रिय–स्तरे पदक–विजेतॄणां सम्मानार्थं विशेषः कार्यक्रमः आयोजितः, यस्यान्तर्गतं एतेषां क्रीडकाणां कृते प्रायः सप्तदश–कोटि–रूप्यकाणां प्रोत्साहन–राशिः प्रदत्ता। स: अवदत् यत् अन्ताराज्यीय–प्रतियोगितासु सहभागं कुर्वतां क्रीडकाणां कृते अन्य–राज्येषु यात्राकाले रेल–यात्रायां तृतीय–श्रेणी–सौविध्यं प्रदातुं राज्य–सर्वकारेण निर्णयः कृतः। न केवलम् एतावत्, अपि तु दूरस्थ–राज्येषु प्रतियोगितार्थं गच्छतां क्रीडकाणां कृते वायुविमान–यात्रा–भत्तां दातुम् अपि निर्णयः कृतः।

हिन्दुस्थान समाचार / अंशु गुप्ता