केन्द्रीयकृषि–मन्त्री शिवराजसिंहः चौहानः काशी–विश्वनाथ–मन्दिरे उपस्थितिं दत्तवान्
वाराणसीनगरम्, २६ फरवरीमासः (हि.स.)। केन्द्रीयकृषि–मन्त्री शिवराजसिंहः चौहानः गुरुवासरे श्रीकाशी–विश्वनाथ–दरबारे विधिवत् उपस्थितिं दत्तवान्। द्विदिवसीय–प्रवासे नगरम् आगतः केन्द्रीयमन्त्री बाबा–विश्वनाथस्य दरबारे पावनज्योर्तिलिङ्गस्य अभिषेकं कृत्वा व
केन्द्रीय कृषि मंत्री


वाराणसीनगरम्, २६ फरवरीमासः (हि.स.)। केन्द्रीयकृषि–मन्त्री शिवराजसिंहः चौहानः गुरुवासरे श्रीकाशी–विश्वनाथ–दरबारे विधिवत् उपस्थितिं दत्तवान्। द्विदिवसीय–प्रवासे नगरम् आगतः केन्द्रीयमन्त्री बाबा–विश्वनाथस्य दरबारे पावनज्योर्तिलिङ्गस्य अभिषेकं कृत्वा विधिनियमेन पूजां अर्चितवान्। मन्दिरे दर्शन–पूजनकाले केन्द्रीयकृषि–मन्त्री बाबा–विश्वनाथात् राष्ट्रस्य सुख–समृद्धिः शान्तिश्च प्रार्थितवान्।

दर्शन–पूजनानन्तरं मन्दिरात् बहि: पत्रकारैः सह संक्षिप्तवार्तालापे केन्द्रीयमन्त्री सर्वान् विकसितभारतस्य निर्माणे योगदानं दातुम् आहूतवान्। अग्रिम-होली–पर्वण: शुभकामनां दत्त्वा उक्तवान् यत् भगवान् शिवः सर्वेभ्य: कृपां आशीर्वादं च प्रयच्छतु।

शङ्कराचार्यस्वामी-अविमुक्तेश्वरानन्द–विषये सम्बन्धितं प्रश्नं परिहर्तुम् उक्तवान् यत् होलिका रागानां तथा आनन्दस्य पर्व अस्ति, यत्र सर्वा: वार्ता: विस्मृत्य प्रेम्णा सह एकत्र होली–उत्सवं कर्तुं योजनीयम्। एतत् पर्व एकत्वस्य तथा भ्रातृत्वस्य संदेशं ददाति। केन्द्रीयमन्त्री काशी–सांस्कृतिकधरोहरस्य धार्मिकमहत्त्वस्य वर्णनं कृत्वा उक्तवान् यत् काशी भारतीयसंस्कृतेः महत्वपूर्णकेंद्रम् अस्ति। भारतं विकसितराष्ट्रं कर्तुं सर्वे स्वकीयम् उत्तरदायित्वं निर्वोढुं यत्नं कुर्यु:।

पूर्वमेव स: स्वस्य ‘एक्स’पटले लिखितवान् यत् भगवत: शिवस्य पावननगरे काश्यां श्री–बाबा–विश्वनाथस्य दर्शन–पूजया मनः अलौकिक–ऊर्जया परिपूरितम् अभवत्। देवाधिदेवस्य महादेवस्य आशीर्वादः सर्वेषां उपरि स्थितः भवतु, सर्वेषां जीवने सुख–शान्तिः समृद्धिश्च वासं कुर्वन्तु, एषा एव कामना।

हिन्दुस्थान समाचार / अंशु गुप्ता