Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 26 फ़रवरीमासः (हि.स.)। आगामिनीं चारधामयात्रां सुव्यवस्थितां सुरक्षितां च कर्तुं जिला प्रशासनस्य सिद्धताः तीव्रतां गताः। यात्राकाले श्रद्धालूनां सुविधां सुव्यवस्थितपंजीकरणव्यवस्थां च सुनिश्चितीकर्तुं ऋषिकुलमैदाने विंशतिः पंजीकरणकाउंटराः स्थाप्यन्ते।
अस्मिन् क्रमे मयूर दीक्षित इत्यस्य अध्यक्षतायां कलेक्ट्रेट हरिद्वार कार्यालये बैठकायाः आयोजनं कृतम्, यत्र यात्राव्यवस्थासम्बद्धानां विभिन्नविभागानां कार्ययोजना सिद्धतयश्च विस्तरेण समीक्षिताः।
बैठके जिला पर्यटन विकास अधिकारी सुशील नौटियाल इत्यनेन सूचितं यत् यात्रिणां पंजीकरणं ऋषिकुलमैदाने एव भविष्यति। तत्र विंशतिः पंजीकरणकाउंटराः स्थाप्यन्ते, यत्र शिफ्टनुसारं ड्यूटी व्यवस्था भविष्यति। पंजीकरणकेंद्रं प्रतिदिन प्रातः सप्तवादनात् सायं सप्तवादनपर्यन्तं सञ्चालितं भविष्यति।
जिलाधिकारी चारधामयात्राकाले यातायातव्यवस्थां सुचारुं स्थापयितुं भीडनियन्त्रणार्थं प्रभावी डायवर्जनयोजना निर्मातुं पुलिसविभागं निर्देशितवान्। अस्मिन् विषये एसपी सिटी अभय सिंह इत्यनेन पुलिससिद्धताविषये विवरणं प्रस्तुतम्।
जिलाधिकारी सम्भागीय परिवहन अधिकारी प्रवर्तनं ऋषिकुलमैदाने हेल्पडेस्क स्थापना कर्तुं निर्देशितवान्, येन यात्रिभ्यः परिवहनसम्बद्धा सूचना सहायता च लभ्येत। धामेषु अत्यधिकभीडस्थितौ अथवा सप्ताहान्ते हरिद्वारे संभावितभीडवृद्धिं दृष्ट्वा यात्रिणां निवासार्थं धर्मशालाः आश्रमाश्च चिन्हिताः भविष्यन्ति। हरिद्वारस्य प्रमुखदर्शनीयस्थलानां साइनजबोर्डाः अपि निर्माय स्थापिताः भविष्यन्ति।
निगमं निर्देशितं यत् पंजीकरणकेंद्रे होल्डिंगएरिया च यात्रिणां सुविधार्थं शौचालयाः मोबाइल टॉयलेट च सम्यग्व्यवस्थिताः स्युः तथा प्रतिदिन स्वच्छतार्थं पर्याप्तसंख्यया स्वच्छताकर्मचारिणः नियुक्ताः स्युः। मुख्यचिकित्साधिकारी ऋषिकुलमैदाने स्वास्थ्यपरीक्षणशिविरं स्थापयितुं निर्देशितः, येन यात्रिणां स्वास्थ्यसम्बद्धा परीक्षा समये भवेत्।
अतिरिक्ततया नगरमजिस्ट्रेटस्य अध्यक्षतायां सर्वेषु होटलेषु रेस्टोरेंटेषु च सिलेंडरस्थानस्य गैसपाइपलाइन माध्यमेन गैसापूर्तिः सुनिश्चितीकरणार्थं अभियानं प्रचलितुं निर्देशाः दत्ताः।
चारधामयात्रार्थं हरिद्वारं आगच्छतां यात्रिणां पर्यटकानां च सुविधार्थं निःशुल्कपंजीकरणकेंद्राणां सूचनायाः व्यापकप्रचारप्रसारः क्रियते। अस्यार्थं होर्डिंग फ्लैक्स साइनजबोर्डादीनि स्थापयितुं जिला पर्यटन विकास अधिकारी निर्देशितः।
उपवेशने सर्वे सम्बद्धविभागाः उपस्थिताः आसन् तथा यात्रां सुरक्षितां सुगमां सुव्यवस्थितां च कर्तुं समन्वयेन कार्यं कर्तुं आश्वासनं दत्तवन्तः।
हिन्दुस्थान समाचार