सरस्वती–शिशु–बालिका–विद्या–मन्दिरे वार्षिकोत्सवे कार्यक्रमः आयोजित:
अररियानगरम्, २७ फरवरीमासः (हि.स.)। फारबिसगंजस्य कटहराग्रामे स्थिते सुलोचना–देवी–डॉ.डीएल-दास–सरस्वती–शिशु–मन्दिरे तथा बालिका–विद्या–मन्दिरे २१–तमः वार्षिकोत्सवः शुक्रवासरे आयोजित:। कार्यक्रमस्य मुख्यातिथि: मुख्य–वक्ता च लोक–शिक्षा–समितेः बिहार–प्रद
अररिया फोटो:वार्षिकोत्सव कार्यक्रम में अतिथि


अररियानगरम्, २७ फरवरीमासः (हि.स.)। फारबिसगंजस्य कटहराग्रामे स्थिते सुलोचना–देवी–डॉ.डीएल-दास–सरस्वती–शिशु–मन्दिरे तथा बालिका–विद्या–मन्दिरे २१–तमः वार्षिकोत्सवः शुक्रवासरे आयोजित:।

कार्यक्रमस्य मुख्यातिथि: मुख्य–वक्ता च लोक–शिक्षा–समितेः बिहार–प्रदेश–सचिवः रामलाल–सिंह: आसीत्। स: उक्तवान् – “समाजस्य सहयोगेन देशे अनेकानि शिशु–विद्या–मन्दिराणि सञ्चाल्यन्ते। विद्या–भारती शिक्षा–माध्यमेन समाजपरिवर्तनस्य कार्यं करोति। विद्या–भारती–विद्यालयात् पठित्वा बहवः छात्रा: राष्ट्रस्य सर्वोच्च–परीक्षासु उत्तीर्णाः भूत्वा देशसेवायां नियुक्ता: भवन्ति। विद्या–भारती–विद्यालयेषु हिन्दुत्व–निष्ठा राष्ट्रभक्त्या च ओतप्रोत-बालकाः निर्मीयन्ते।”

स: उपरान्तं उक्तवान् – “समाज–जागरणे विद्या–भारती–संस्थायाः अत्यन्तं योगदानम् अस्ति। १९५२ तमे संवत्सरे संघस्य प्रेरणया केचन निष्ठावन्तः जनाः शिक्षा–पुण्यकर्मणि संलग्नाः अभवन्। राष्ट्रनिर्माणे अस्मिन्कर्मे संलग्नजनाः नवोदित–वंशाय योग्य-शिक्षया सह संस्कारदानेन सरस्वती–शिशु–मन्दिरेषु आधारशिलां गोरखपुरे स्थापितवन्त:, या अद्य सम्पूर्णे भारतवर्षे अपि सर्वाधिकी प्रमुखा गैर–सर्वकारी–शैक्षिक–संस्था इव प्रसिद्धा अस्ति। विद्या–भारती–विद्यालयेषु भ्राता–भगिनीनां सर्वाङ्गीण–विकासः क्रियते। अद्य विद्या–भारती–संस्थायाः अधीनं सहस्रं शिक्षण–संस्थाः सञ्चालिताः सन्ति।”

कार्यक्रमे पूर्व–विधायकः विद्यासागर–केशरी उक्तवान् – “राष्ट्रनिर्माणे विद्या–भारती–संस्थायाः अत्यन्तं योगदानम् अस्ति।”

धन्यवादं अध्यक्ष: राम–प्रकाश–प्रसादः कृतवान्। मञ्च–सञ्चालनं विद्यालयस्य अष्टम–कक्षायाः भगिनीनां द्वारा सम्पन्नम्।

हिन्दुस्थान समाचार / अंशु गुप्ता