Enter your Email Address to subscribe to our newsletters

धर्मशाला, 27 फ़रवरीमासः (हि.स.)।
हिमाचल प्रदेश केंद्रीय विश्वविद्यालय इत्यस्य शाहपुर-परिसरे शुक्रवासरे राष्ट्रिय-विज्ञान-दिवसः “वीमेन-इन-साइंस-कैटालायसिंग-विकसित-भारत” इति-विषयक-आधारेण सम्यक् आयोजितः।
अस्मिन्-अवसरे विश्वविद्यालयस्य कुलपतिः प्रो-सत-प्रकाश-बंसल मुख्य-संरक्षक-रूपेण तथा सुनीता-बंसल मुख्य-अतिथि-रूपेण उपस्थितौ आस्ताम्। विशिष्ट-अतिथिरूपेण अधिष्ठाता-अकादमिक-प्रो-प्रदीप-कुमार तथा अधिष्ठाता-छात्र-कल्याण-प्रो-सुनील-कुमार-ठाकुर विशेषतया उपस्थितौ।
अवसरे अस्मिन् परिसरस्यान् छात्र-छात्राभिः निर्मिता रङ्गोली-प्रस्तुतिः विशेष-आकर्षण-केंद्रं अभवत्। शत-पञ्चविंशत्यधिकाः शिक्षार्थिनः विज्ञान-संबद्ध-विषयेषु सुन्दर-आकर्षक-रङ्गोल्यः निर्माय विविधासु शैक्षणिक-सांस्कृतिक-क्रियासु उत्साहेन सहभागित्वं कृतवन्तः।
कार्यक्रमे विज्ञान भारती तथा संस्कृत भारती इत्याभ्यां इंडियन-नॉलेज-सिस्टम-इति-विषये प्रदर्शनी-आयोजनम् अपि कृतम्।
शाहपुर-परिसरस्य परिसर-निदेशकः प्रो-भागचन्द-चौहान स्व-संबोधने उक्तवान् यत् एतादृशाः प्रेरणादायक-ज्ञानवर्धक-कार्यक्रमाः भविष्ये अपि निरन्तरं आयोजयिष्यन्ते येन विद्यार्थिनां वैज्ञानिक-दृष्टिकोणः नवाचार-भावना च सदा प्रोत्साहितौ भवेताम्।
हिन्दुस्थान समाचार