अत्याधुनिक दुग्धसंयंत्रस्य सहसा निरीक्षणं, गुणवत्तां स्वच्छतां च वीक्ष्य संजातः संतुष्टो निदेशकः
हल्द्वानी , 27 फ़रवरीमासः (हि.स.)। लालकुआं नैनीताल दुग्ध उत्पादक सहकारी संघ लिमिटेड इत्यस्मिन् लालकुआं नगरे निर्माणाधीनस्य पञ्चाशीतिकोटि रूप्यक मूल्यस्य अत्याधुनिक दुग्ध संयंत्रस्य डेरी विकास विभागस्य निदेशकः अशोक कुमार जोशी आकस्मिक निरीक्षणं कृत
85 करोड़ की लागत से बन रहे अत्याधुनिक दुग्ध प्लांट का औचक निरीक्षण


हल्द्वानी , 27 फ़रवरीमासः (हि.स.)।

लालकुआं नैनीताल दुग्ध उत्पादक सहकारी संघ लिमिटेड इत्यस्मिन् लालकुआं नगरे निर्माणाधीनस्य पञ्चाशीतिकोटि रूप्यक मूल्यस्य अत्याधुनिक दुग्ध संयंत्रस्य डेरी विकास विभागस्य निदेशकः अशोक कुमार जोशी आकस्मिक निरीक्षणं कृतवान्। सः स्थलम् आगत्य निर्माणकार्यस्य प्रगतिं परीक्षितवान् तथा कार्यदायिनी संस्थां प्रति समयबद्धतया गुणवत्तापूर्वकं च शीघ्रं कार्यसमापनाय निर्देशान् दत्तवान्।

निरीक्षणकाले निदेशकः संयंत्रे उपयुज्यमानानां निर्माणसामग्रीणां सूक्ष्मतया परीक्षणं कृतवान्। तथा च डेरी विकाससम्बद्ध व्यवस्थाः, यन्त्राणां स्थापना, तकनीकी सज्जता इत्यादिषु विस्तृतः विचारविमर्शः कृतः। सः स्पष्टतया उक्तवान् यत् एषा योजना क्षेत्रस्य दुग्ध उत्पादकानां कृते मीलशिला सदृशी भविष्यति। अस्य संचालनात् दुग्धसंग्रहण, प्रसंस्करण तथा विपणन क्षमता उल्लेखनीयतया वर्धिष्यते, येन कृषकाः प्रत्यक्षं लाभं प्राप्स्यन्ति।

अस्मिन् अवसरे निदेशकः अशोक कुमार जोशी दुग्धशालायां निर्मीयमाणस्य दुग्धस्य, पनीरस्य, घृतस्य तथा अन्येषां दुग्धोत्पादानां गुणवत्तां स्वच्छताव्यवस्थां च निरीक्षितवान्। उत्पादन इकायां स्वच्छता, गुणवत्ता नियंत्रण तथा पैकेजिंग व्यवस्था दृष्ट्वा सः संतोषं व्यक्तवान्। तेन अधिकारिणः प्रति निर्देशाः दत्ताः यत् गुणवत्तायाः स्वच्छतायाः च मानकेषु कस्यापि स्तरस्य सम्झौता न क्रियताम्, येन उपभोक्तृभ्यः शुद्ध सुरक्षित उत्पादाः प्राप्नुयुः।

अस्मिन् अवसरे दुग्ध संघस्य अध्यक्षः मुकेश बोरा उक्तवान् यत् डेरी संस्थायाः उपयोगिता उत्पादन क्षमता च दृष्ट्वा आधुनिक यन्त्राणां स्थापना शीघ्रं क्रियेत, येन संयंत्रस्य संचालनं समये आरभ्य दुग्ध उत्पादकाः अधिकतमं लाभं प्राप्नुयुः।निरीक्षणकाले उपनिदेशकः संजय उपाध्याय, सामान्य प्रबन्धकः यूसीडीएफ आर एम तिवारी, डॉ पी एस नागपाल, सामान्य प्रबन्धकः दुग्ध संघ अनुराग शर्मा, प्रभारी प्रशासन विपणन संजय सिंह भाकुनी, कारखाना प्रबन्धकः धर्मेंद्र राणा, प्रभारी उपार्जन सुभाष बाबू, प्रभारी प्रयोगशाला रमेश आर्य तथा सिंचाई विभागस्य अधिकारिणः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार